SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-४५-४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२६३ - ननु तथापि सन्नन्तत्वात् 'सभिक्ष' ५-२-३३ इत्यादिना उः प्रत्ययः प्राप्नोति ? नैवं, विषयव्याख्यानात् , यद्यकारलोपेऽपि उः प्रत्ययस्तदा विषयव्याख्या फलं न । न णिङ्-य-सूद-दीप-दीक्षः ॥ ५. २.४५ ॥ णिङन्तेभ्यो यान्तेभ्यः सूदादिभ्यश्च धातुभ्यः शीलादौ सत्यर्थेऽन: प्रत्ययो न भवति । भावयिता. हस्तयिता. उत्पच्छयिता.मायिताक्रयिता, दयिता, सदिता, दीपिता, दीक्षिता। मधुसूदनाऽरिसूदन-बलसूदनादयो नन्यादिषु द्रष्टव्याः ॥४५।। न्या० स०-न णिय भावयितेति-अत्रानेकस्वरत्वात् णकविषये णिलोपात् व्यञ्जनान्तत्वात् अनः प्राप्तः प्रतिषिध्यते, तत इटि सति ‘णेरनिटि' ४-३-८३ इत्युक्तेः पुननिवर्त्तते एवं हस्तयितेत्यादौ भावना। द्रम-क्रमो यङः॥ ५. २. ४६ ॥ शीलादौ सत्यर्थे वर्तमानाभ्यां यङन्ताभ्यां द्रमि-क्रमिभ्यामन: प्रत्ययो भवति । कुटिलं द्रमति कामतीत्येवंशील:-दन्द्रमणः, चङ्क्रमणः । सकर्मकार्थ वचनम्, य इति प्रतिषेधनिवृत्त्यर्थं च । “प्रतः" ( ४-३-८२) इति हि लुक् प्रत्यये विषयभूतेऽपि भवति ।।४६॥ न्या० स०-व्रमक्रमो-सकर्मकार्थमिति- इङितः' ५-२-४४ इत्यनेन तु अकर्मकाद्विहितः । प्रतिषेधनिवृत्त्यर्थमिति-ननु यदि सकर्मकार्थमारम्भस्तदा न विधेयः, यतोऽविवक्षितकर्मकाभ्यामाभ्यां 'इङितः' ५-२-४४ इत्यनेन भविष्यतीत्याह-य इतीति-ननु यङोऽकारान्तत्वात् कथं यान्तत्वमित्याह-अत इतीति । विषयेभूतेऽपीति-अनेकस्वरत्वाण्णकस्य । यजि-जपि-दंशि-वदादूकः ॥ ५. २. ४७ ॥ एभ्यो यङन्तेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य ऊकः प्रत्ययो भवति । भृशं पुनः पुनर्वा यजतीत्येवंशीलो-यायजूकः, जंजपूकः, दन्वशूकः, वावदूकः । अन्येभ्योऽपीति केचित-दंदहूकः, पापयूकः, निजागदूकः, नानशूकः, पंपशूकः ॥४७॥ जागुः ॥ ५. २. ४८॥ शीलादौ सत्यर्थे वर्तमानाज्जागर्तेरूकः प्रत्ययो भवति, यङ इति निवृत्तम् । जागर्तीस्येवंशोलो-जागरूकः ॥४८॥ न्या० स०-जागुः-यङ इति निवृत्तमिति-अनेकस्वरत्वेनासंभवात् । शमष्टकाद् घिनण् ॥ ५. २. ४१ ॥ शीलादौ सत्यर्थे वर्तमानेभ्यः शमादिभ्योऽष्टाभ्यो धातुभ्यो घिनण् प्रत्ययो भवति । शाम्यतीत्येवंशील:-शमी दमी, तमीश्रमी क्षमी, प्रमादी, उन्मादी क्लमी। घजन्ता
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy