SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-३८-४२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२६१ लज्जालुः, ईर्ष्यालुः, शलालुप्रभृतयस्त्वौणादिकाः । कृपालु हृदयालू मत्वर्थीयान्तौ ॥३७॥ ङौ सासहि-बावहि-चाचलि-पापति ।। ५. २. ३८ ॥ शोलादौ सत्यर्थे वर्तमानानां सहि-वहि-चलि-पतीनां यङन्तानां डौ सति यथासंख्यमेते निपात्यन्ते । अत एव वचनात डिरपि । __ सासह्यते इत्येवंशील:-सासहिः । वावह्यते-वावहिः । चाचल्यते-चाचलिः । पनीपत्यते-पापति:, निपातनात न्यागमाभावः । ङाविति ङकार: "तृन्नुदन्ताव्ययववस्वान०" (२-२-६०) इत्यत्र विशेषणार्थः ।।३।। सनि-चक्रि-दधि-जज्ञि-नेमि ॥ ५. २. ३१ ॥ . एते शोलादौ सत्यर्थे कृतद्विर्वचना डिप्रत्ययान्ता निपात्यन्ते । सरतीत्येवंशीलः-सनिः करोति-चक्रिः, दधाति-दधिः, जायते जानाति वा जज्ञिः, नमति-नेमिः, द्विर्वचनाभाव एत्वं च निपातनात् ।।३६॥ . श-कम-गम-हन-वृष-भू स्थ उकण् ॥ ५. २. ४०॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण् प्रत्ययो भवति । शणातीत्येवंशील:-शारुकः, प्रशारुकः शरः । कामुकः, कामुकी रिरंसुः, कामुका येच्छां विना कामयते, कामुका अन्यस्य स्त्रियो भवन्ति । गामुकः, आगामुकः स्वगृहम् । घातुकः, आघातुको व्याधः । वर्षुकः, प्रवर्ष कः पर्जन्यः। भावुकः, प्रभावुकः क्षत्रियः । स्थायुकः प्रमत्तः, उपस्थायुको गुरुम्, गुणानधिष्ठायुकः ।।४०॥ न्या० स०-शृकमगम-कामुका अन्यस्येति-'अकमेरुकस्य' २-२-९३ इत्यत्र कमिवजनान्न षष्ठीनिषेधः। लष-पत-पदः।। ५. २. ४१॥ शीलादौ सत्यर्थे वर्तमानेभ्य एभ्य उकण प्रत्ययो भवति ।। अपलषतीत्येवंशोलमपलाषुकं नीचसांगत्यम् , अभिलाषुकः । उत्पातुकं ज्योतिः, प्रयातुका गर्भाः । उपपादुका देवाः । योगविभाग उत्तरार्थः ॥४१॥ भूषा-क्रोधार्थ-जु-सृ-गृधि ज्वल-शुत्रश्चानः॥ ५. २. ४२॥ भूषार्थेभ्यः क्रोधार्थेभ्यो जु-सृ-गृधि-ज्वलशुचिभ्यो लष-पत-पदिभ्यश्च शीलादौ सत्यर्थं वर्तमानेभ्योऽनः प्रत्ययो भवति । भषार्थे-भषयतीत्येवंशीलो-भूषणः कुलस्य, मण्डना गगनस्य भाः, प्रसाधनः । क्रोधार्थे-क्रोधन:, कोपनः, रोषणः । जवतिः सौत्रो वेगाख्ये संस्कारे वर्तते, तेन चल्यर्थ
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy