SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-२३-२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२५७ सत्यर्थे वर्तमानाद् वेत्तेः क्वसुप्रत्ययो वा भवति, पक्षे यथाप्राप्तम् । विद्वान्, साधुस्तत्त्वं विद्वान् विदन् वेत्ति । विदुषा कृतम्, विदता कृतम् । हे विद्वन् !, हे विदन ! । वैष:. वेदतः । विद्याक्तिः। विवक्तिः । विदानास्ते. विदन्नास्ते । विद्वाल्लभते, विदल्लंमते । द्वितीयाद्यन्तपदसामानाधिकरण्याविषु पूर्ववदनन्वयादेव न वर्तमाना। ककारः कित्कार्याथः । उकारो ज्यर्थः ॥२२॥ न्या० स०-वा वेत्तेः-'असरूपोऽपवादेन' ५-१-१६ इत्यनेन विकल्पे सिद्ध वाग्रहणमत्र प्रकरणे असरूपविधेर्लक्ष्यानुरोधार्थ, अत एव 'वयः शक्ति' ५-२-१४ इत्यत्रानभिधानान्न वाऽसरू कित्कार्याद्यर्थ इति-आदिपदात् 'तृन्नुदन्त' २-२-९० इत्यादि । पूङ् यजः शानः ॥ ५. २. २३ ॥ सत्यर्थे वर्तमानाम्यां पति-यजिभ्यां परः शानः प्रत्ययो भवति, कृत्त्वात कर्तरि । पवते-पवमानः, मलयं पवमानः । यजति यजते वा-यजमानः । पानशा योगे न षष्ठीसमासो, न च यजेरफलवति कर्तरि सोऽस्तीति वचनम्, एवमुत्तरत्रापि । शकारः शिकार्यार्थः ।।२३॥ - न्या० स०-पूयजः-मलयं पवमान इति-'तृन्नुदन्त'.२-२-९० इत्यनेन आनद्वारा कर्मषष्ठीनिषेधे मलयस्य संबन्धी पवमान इति संबन्धषष्ठीसमासः । नन पूङ आत्मनेपदित्वात् यजेरप्युभयपदित्वात् फलवत्कर्त्तरि 'शत्रानशौ' ५-२-२० इत्यनेनैव वानश् सिद्धः किमनेन ? इत्याह-मानशा योगे न षष्ठीसमास:-तृप्तार्थेति निषेधात् । वयः शक्ति-शीले ।। ५. २. २४ ॥ सत्यर्थे वर्तमानाद् धातोर्वयः-शक्ति-शोलेषु गम्यमानेषु शानो भवति, वयः-प्राणिनां कालकृता बाल्याद्यवस्था । ____कतोह शिखण्डं वहमानाः, स्त्रियं गच्छमानाः । शक्तिः-सामर्थ्यम्, कतीह हस्तिनं निधनानाः, समश्नानाः । शीलं-स्वभावः, कतीहात्मानं वर्णयमानाः, परान्निन्दमानाः । अनमिषानान्न वाऽसरूपः शतृः ॥२४॥ धारीडोकृच्छेऽतृशू ।। ५. २. २५ ॥ अकृच्छ:-सुखसाध्यः, अकृच्छे सत्यर्थे वर्तमानाद् धारेरिङश्न परोऽतृश् प्रत्ययो भवति । धारयन् आचाराङ्गम्, अधीयन् ब्रुमपुष्पीयम् । अकृच्छ इति किम् ? कृच्छेण धारयति यतिधर्मम्, कृच्छणाधीते पूर्वगतम् । इङ आनशि प्राप्ते धारेरुभयप्राप्ती वचनम् । वासरूपोऽपि नेष्यत एव ॥२५॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy