SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-२० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २५५ अस्ति; अधीयानः अधीते; विद्यमानः, विद्यते; जुह्वद, जुहोति; विदन् , वेत्ति; जानन् जानाति ब्राह्मणः । तथा तरादौ प्रत्यये-पचत्तरः, पचत्तमः, पचतितरां, पचतितमाम् । पचद्रूपः, पचतिरूपम् । जल्पत्कल्पः, जल्पतिकल्पम् । पश्यद्देश्यः, पश्यतिदेश्यम् । पठद्देशीयः, पठतिदेशीयम् । एवं-पचमानतरः, पचमानतमः, पचतेतरां पचतेतमामित्यादि । द्वितीयाद्यन्तपदसामानाधिकरण्य-संबोधन-तरादिवजिततद्धितप्रत्ययोत्तरपद-कियालक्षण-क्रियाहेतुषु वर्तमानाया अन्वयायोगात् शत्रानशावेव-पचन्तं पचमानं पश्य, पचता पचमानेन कृतम्, पचते पचमानाय देहि, पचतः पचमानाद् भीतः, पचतः पचमानस्य स्वम्, पचति पचमाने गतः, संबोधने-हे पचन ! हे पचमान ! तराद्यन्यतद्धिते-कुर्वतोऽपत्यं कौर्वतः, पाचतः, वैक्षमारिणः, कुर्वत्पाशः, पचत्पाशः; कुर्वच्चरः, पचच्चरः । उत्तरपदे-भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य-कुर्वद्भक्तिः, कुर्वाणभक्तिः, कुर्वत्प्रियः, कुर्वाणप्रियः; ब्रुवन्माठरः, ब्रु वाणमाठरः । क्रियाया लक्षणं ज्ञापकं चिह्नम्, तत्र-तिष्ठन्तोऽनुशासति गणकाः, शयाना भुञ्जते यवनाः, बहुषु मूत्रयत्सु कश्चैत्र इति पृष्टः कश्चिदाह-यस्तिष्ठन् मूत्रयति, एवं-यो गच्छन् भक्षयति, यः शयानो भुङ्क्ते, योऽधीयान् प्रास्ते । तथा य: पठन पचति स मैत्रः, एवं-यः पचन पठति; योऽधीयान प्रास्ते, य प्रासीनोऽधीते । तथा "फलन्ती वर्द्धते द्राक्षा, पूष्प्यन्ती वर्द्धतेऽम्जिनी । शयाना वर्धते दूर्वा, प्रासीनं वर्धते बिसम् ॥" क्रियाया हेतुर्जनकस्तत्र-अर्जयन् वसति, अधीयानो वसति । एष्यति तु सस्यौ-यास्यन , शयिष्यमाणः, पक्ष्यन , पक्ष्यमाणः; यास्यति, शयिष्यते, पक्ष्यति, पक्ष्यते । तथा-भविष्यन् , भविष्यति; अध्येष्यमाणः, अध्येष्यते ब्राह्मण इत्यादि । तथा-पक्ष्यत्तरः, पक्ष्यमाणतमः, पक्ष्यतितराम्, पक्ष्यतितमामित्यादि; सर्वेष्वेकविषयत्वाद् भविष्यन्त्यपि । 'पक्ष्यन् व्रजति, पक्ष्यमाणो व्रजति' इति क्रियायां कियार्थायाम, एकविषयत्वाच्च भविष्यन्त्यादयोऽपि-पक्ष्यामीति व्रजति, पाचको व्रजति, पक्तुं व्रजति । पूर्ववदेव च द्वितीयाद्यन्तसामानाधिकरण्यादिषु भविष्यन्त्याः समन्वयाभावादभावः-पक्ष्यन्तं पश्य, पक्ष्यमाणं पश्य । हे पक्ष्यन् ! हे पश्यमाण ! ब्राह्मण! पाक्ष्यतः, पाक्ष्यमारिणः, पक्ष्यमाणपाशः, पक्ष्यद्भक्तिः, पक्ष्यमाणप्रियः, जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः, अध्येष्यमाणा वत्स्यन्तीत्यादि । सदेष्यतोरभावे तु श्वः पक्ता। बहुलाधिकाराद् द्रव्य-गुणयोर्लक्षणे, हेतुहेतुमद्भावद्योतके त्यादियोगे च न भवतियः कम्पते सोऽश्वत्थः, यत तरति तल्लघ, हन्तीति पलायते. वर्षतीति धावति, करिष्यतीति व्रजति, हनिष्यतीति नश्यति, पचत्यतो लभते, विजयतेऽतः पूज्यते । क्रियाया अपि लक्षणे चादियोगे न भवति-यः पचति च पठति च स चैत्रः, योऽधीते चास्ते च स मैत्रः, शकारः शित्कार्यार्थः । ऋकारो याद्यर्थः ॥२०॥ ___ न्या० स०-शत्रानशा०-स्योऽपि प्रत्ययत्वादिति-शत्रानशौ प्रथम प्रधानत्वात धातोविधीयेते, ततः प्रत्ययत्वादेव स्योऽपि घातोरेवानन्तरं न तु शत्रानश्भ्यां परः।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy