SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पाद- १, सूत्र - १७३-१७४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ २४७ जषोऽतृः ।। ५. १. १७३ ॥ जीर्भूतार्थवृत्तेरतृप्रत्ययो भवति । जीर्यति स्म जरन्, जरती । असरूपत्वात्जीर्ण, जीर्णवान् ऋकारो दीघत्वप्रतिषेधार्थः ।। १७३ ।। क्तक्तवतू ।। ५. १. १७४ ॥ धातोर्भूतेऽर्थे वर्तमानात् क्तक्तवतू प्रत्ययौ भवतः । क्रियते स्म - कृतः, करोति स्म कृतवान् । प्रकृतः कटं देवदत्तः, प्रत्र समुदायस्याभूतत्वेऽपि कटैकदेशे कटत्वोपचारात् तस्य च निर्वृत्तत्वाद् भूत एव धात्वर्थ इत्यादिकर्मण्यप्यनेनैव क्तक्तवतू सिद्धौ ॥१७४॥ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ अगणितपञ्चेषुबल: पुरुषोत्तमचित्तविस्मयं जनयन् । रामोल्लासन मूर्तिः श्रीकर्ण कर्ण इव जयति ॥ १॥ इत्याचार्यश्री० सिद्धहेमचन्द्राभिधानस्वोपज्ञ- शब्दानुशासनबृहद्वृत्तेः पञ्चमाध्या यस्य न्यासत: प्रथमः पादः समाप्तः ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy