SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३८ ] बृहद्वृत्ति लघुन्याससंवलिते [पाद-१, सूत्र-१४०-१४४ भिक्षाचरी। सेनां चरति-परीक्षते-सेनाचरस्तापसव्यञ्जनः, सेनया वा चरति-सेनाचरः । आदाय-गृहीत्वा चरति-प्रादायचरः, आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवव । एभ्य इति किम् ? कुरूश्चरति ॥१३९॥ न्या० स०-भिक्षासे०-तापसव्यञ्जन इति-तपोऽस्यास्ति ज्योत्स्नादित्वादण् तापसः, तस्य व्यञ्जनं चिह्न यस्य, यद्वा तपस इदं तापसं तत् व्यञ्जनं यस्य, यद्वा तापस इति व्यज्यते प्रकटीक्रियते ज्ञायते तापसव्यञ्जनः, यद्वा तापसे व्यजनं व्याजो यस्येति । पुरो-ऽग्रतोऽग्रे सर्तेः ॥ ५. १. १४०॥ एभ्यो नामभ्यः परात सर्तेष्टो भवति । पुरः सरति-पुरःसरः, पुरः-सरी । अग्रतः सरति-अग्रतःसरः, आद्यादित्वात् तस् । अग्ने सरति-अग्रेसरः. सप्तम्यलुप, एकारान्तमव्ययं वा; सूत्रनिपातनाद् वैकारः, तत्राग्रं सरति अग्रेण वा सरति-अग्नेसर इत्यपि भवति ।। १४०। पूर्वात् कर्तुः ॥ ५. १. १४१ ॥ पूर्वशब्दात् कर्तृवाचिनः परात सरतेष्टो भवति । पूर्वः सरति-पूर्वसरः, पूर्वो भूत्वा सरतीत्यर्थः, कस्मात् पूर्व इति अविवक्षव; पूर्वसरी। कर्तु रिति किम् ? पूर्व देशं सरतिपूर्वसारः ॥१४१॥ ___ न्या० स०-पूर्वात्कर्तु: अविवक्षवेति-तेन सापेक्षत्वात् समासो न प्राप्नोतीति न वाच्यम् । स्था-पा-स्ना-त्रः कः ।। ५. १. १४२ ॥ नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समे तिष्ठति-समस्थः, विषमस्थः, कटस्थः, कपित्थः, दधित्थः, महित्थः, अश्वस्थः, कुलत्थः । द्विपः, पादपः, कच्छपः, अनेकपः, कटाहपः । नदीष्णः । आतपत्रम्, धर्मत्रम् । परत्वादयं "शमो नाम्न्यः " (५-१-१३४) इत्यप्रत्ययं बाधते शंस्थो नाम कश्चित् । 'शंस्थाः' इत्यसरूपत्वात् क्विप् ।।१४२॥ शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं-प्रिया-ऽलस-हस्ति सूचके । ५. १. १४३ ॥ शोकापनुदादयः शब्दा यथासंख्यं प्रियादिध्वर्थेषु कप्रत्ययान्ता निपात्यन्ते । शोकमपनदति-शोकापनुदः प्रियः, पुत्रादिरानन्दकर एवमुच्यते । तुन्दं परिमाष्टि-तुन्दपरिमृजोऽलसः. स्तम्बे रमते-स्तम्बेरमो इस्ती. कर्णे जपति-कणेजपः सचकः । एग्विति किम् ? शोकापनोदो धर्माचार्यः, तुन्दपरिमार्ज प्रातुरः, स्तम्बे रन्ता पक्षी, कर्णे जपिता मन्त्री ।४३। मूलविभुजादयः ।। ५. १. १४४॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy