SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३० ] बृहवृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-९९-१०३ एभ्यः कर्मभ्यः पराद् ग्रहेरिर्भवति । रजोग्रहिः कञ्चुकः, फलेग्रहिर्वक्षः, सूत्रनिर्देशादेत्वम्। मलग्रहिः कम्बलः । रजो-मलाभ्यां केचिदेवेच्छन्ति ।।६८॥ देव-वातादापः ।। ५. १. ११ ॥ देव-वाताभ्यां कर्मभ्यां परादापेर्धातोरिः प्रत्ययो भवति । देवानाप्नोति देवापिः, वातापिः ||६|| शकृत् स्तम्बाद् वत्स-बीही कृगः ।। ५. १. १००॥ शकृत-स्तम्बाभ्यां कर्मभ्यां पराव कृगो यथासंख्यं वत्से वोहौ च कर्तरि 'इ:' प्रत्ययो भवति । शकृत्करिर्वत्सः, स्तम्बकरिोहिः । वत्स-बोहाविति किम् ? शकृत्कारः, स्तम्ब. कारः ॥१०॥ कि-यत्-तद् बहोरः ॥ ५. १. १०१ ॥ एभ्यः कर्मभ्यः परात करोतेरः प्रत्ययो भवति । किं करोति-किकरः, किंकरा, यत्करः, यत्करा, तत्करः, तत्करा, चौर्य-तस्करः । बहुकरः, बहुकरा; बहुकरीति संख्यावचनादुत्तरेण ट: । जातिरिदानी किंकरीति हेत्वादौ टः ।।१०१॥ संख्या-ह-दिवा-विभा-निशा-प्रभा-भाश्चित्र-कर्नाद्यन्ताऽनन्त-कारबाहरुधनुर्नान्दी-लिपि-लिबि-बलि-भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदारजनि दोषा-दिन-दिवसाट्टः ॥ ५. १. १०२ ॥ संख्येत्यर्थप्रधानमपि, तेनैकादिपरिग्रहः, एभ्यः कर्मभ्यः परात् करोतेष्टः प्रत्ययो भवति । अहेत्वाद्यर्थ आरम्भः । संख्यां करोति-संख्याकरः, एककरः, द्विकरः, त्रिकरः । अहस्करः, दिवाकरः, विभाकरः, निशाकरः, प्रभाकरः, भास्करः, चित्रकरः, कर्तृकरः, प्रादिकरः, अन्तकरः, अनन्तकरः कारकरः, बाहुकरः, अरुष्करः, धनुष्करः, नान्दीकरः, लिपिकरः, लिबिकरः, बलिकरः, भक्तिकरः, क्षेत्रकरः, जङ्घाकरः, क्षपाकरः, क्षणदाकरः, रजनिकरः, रजनीकर:, दोषाकरः, दिनकरः, दिवसकरः । टकारो ड्यर्थ.-संख्याकरी ॥१०२।। हेतु-तच्छीला-ऽनुकूलेऽशब्द-श्लोक कलह-गाथा-बैर-चाटु-सूत्र ___ मंत्र-पदात् ॥ ५. १. १०३॥ हेतुः प्रतीतशक्तिकं कारणम्, तच्छीलं तत्स्वभाव:, अनुकूल पाराध्यचित्तानुवर्ती, एषु कर्तृषु शब्दादिवजितात् कर्मणः पराव करोतेष्टः प्रत्ययो भवति । हेतौ-यश: करोति-यशस्करी विद्या, शोककरी कन्या, कुलकरं धनम् । तच्छोले
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy