SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २२२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-५९-६३ साहि-साति-वेद्य देजि-धारि-पारि-चेतेरनुपसर्गात् ॥५.१.५१ ॥ एतेभ्य उपसर्गरहितेभ्यो ण्यन्तेभ्यः शः प्रत्ययो भवति । साहि-साहयतीति-साहयः । साति: सौत्रो धातुः-सातयः. वेदि-वेदयः, उदेजिउदेजयः, धारि-धारय , पारि पारयः, चेति-चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता। छत्रधार इति परत्वादणेव ।। ५६।। लिम्प-विन्दः ॥ ५. १. ६० ॥ अनुपसर्गाभ्यां लिम्प-विन्दिभ्यां शो भवति । लिम्पतीति-लिम्पः, विन्दतीतिविन्दः । अनुपसर्गादित्येव ? प्रलिपः ॥६० । न्या० स०-लिम्पविन्दः-लिम्पिसाहचर्यात् विन्देस्तौदादिकस्य ग्रहः, न तु विदु अवयवे इत्यस्य । नि-गवादेर्नाम्नि ॥ ५. १. ६१ ॥ यथासंख्यं निपूर्वाद लिम्पेर्गवादिपूर्वाच्च विन्देर्नाम्नि-संजायां शो भवति । निलिम्पन्तीति-निलिम्पा नाम देवाः । गा विन्दतीति-गोविन्दः, कुविन्दः, अरविन्दः कुरुविन्दः, उरविन्दः । नाम्नीति किम् ? निलिपः ॥६१॥ न्या० स०-निगवादेर्ना-अरविन्द इति - चक्रावयव विशेषः, अब्जे तु क्लीबत्वम् , कश्चित्त्वऽब्जेऽपि पुंस्त्वमाह, राजा च । वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ॥ ५. १. ६२ ॥ ज्वलादेगणात दु-नी-भू-अहिभ्य आङ्-पूर्वाच्च स्रवतेरनुपसर्गाण्णो वा भवति, पहिपर्यन्ता ज्वलादयो वृत्करणात् । ज्वलः, ज्वालः । चलः, चालः । 'निपातः, उत्क्रोशः' इति बहलाधिकारात् । दवः. वावः । नयः, नायः । दुनीभ्यां नित्यमेवेत्येके । भवः, भावः । व्यवस्थितविभाषेयम् , तेन-प्राहो मकराविः, ग्रहः सूर्यादिः । आस्रवः, पानावः । अनुपसर्गादित्येव ? प्रज्वलः, प्रदवः, प्रणयः, प्रभवः, प्रग्रहः, प्रस्रवः । १ ज्वल २ कुच, ३ पत्ल, ४ पथे, ५ क्वथे, ६ मथे, ७ षद्ल, ८ शद्लु, ९ बुध, १० टुवमू, ११ भ्रमू, १२ क्षर, १३ चल, १४ जल, १५ टल, १६ टवल, १७ ष्ठल, १८ हल, १६ णल, २० बल, २१ पुल, २२ कुल, २३ पल, २४ फल, २५ शल, २६ हुल, २७ कुशं, २८ कस, २९ रुहं, ३० रमि, ३१ वहि वृत् इति ज्वलादिः ॥६२॥ न्या० स०-वा ज्वलादि०-बहुलाधिकारादिति-सोपसर्गादपीत्यर्थः । अवह-सा-संस्रोः॥५. १. ६३ ॥ अवपूर्वाभ्यां ह-साभ्यां संपूर्वाच्च स्रवतेर्णः प्रत्ययो भवति । अवहारः, अवसायः, संत्रावः । संस्रव इत्यपि कश्चित् ।।६३।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy