SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पाद - १, सूत्र - १२ - १६ ] श्री सिद्धहेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ २११ अद्यर्थाच्चाधारे ॥ ५.१.१२ ॥ अद्यर्थात् आहारार्थात् धातोर्गत्यर्थाऽकर्मक- पिब भुजेश्च यः क्तः स आधारे वा भवति । इदमेषां जग्धम्, इदं तैर्जग्धम्, इह तैर्जग्धम् । इदमेषामभ्यवहृतम्, इदं तैरभ्यवहृतम्, इह तैरभ्यवहृतम् । इदं तेषामशितम्, इदं तैरशितम् इह तैरशितम् । आरम्भे तु कर्तर्यपि भवति-इह ते अन्नं प्राशिताः, इह ते मधु प्रलीढाः । गत्यर्थादिभ्यः खल्वपि - इदं तेषां यातम्, इदमहे: सृप्तम् इदमेषामासितम् इदमेषां शयितम्; इदं गवां पीतम् ; इदं तेषां भुक्तम् । पक्षे कर्तृकर्म - भावेषु पूर्वाण्येवोदाहरणानि ॥ १२ ॥ न्या० स० - अद्यर्थाच्चा०- नन्विदं तैर्जग्धमित्यादौ आधाराऽभावात्कर्मणि स्वयमेव क्तो भविष्यति किं विकल्पेनेति ? न, तक्रकौण्डियन्यायेनाधार एवं एभ्यः क्तः स्यात् यथा 'गत्यर्थात् कुटिले' ३ - ४ - ११ इत्यत्र यङ । पूर्वाण्येवोदाहरणानीति- 'गत्यर्थाऽकर्मक' ५-२-११ इति सूत्रे दर्शितानि । भावे ॥ ५. १. १३॥ क्वा - तुम वेति निवृत्तम्, 'क्त्वा तुम् श्रम्' इत्येते प्रत्यया भावे धात्वर्थमात्रे वेदितव्याः । कृत्वा व्रजति, कर्तुं व्रजति, कारं कारं व्रजति, चौरंकार माक्रोशति, अतिथिवेदं भोजयति ||१३|| न्या० स०- क्वातुम० - वेति निवृत्तमिति कारकनिवृत्तेः । भीमादयोऽपादाने ॥ ५.१.१४ ॥ भीमादयः शब्दा अपादाने साधवो भवन्ति । विभ्यत्यस्मादिति - भीमः । एवंभीष्म:, भयानकः, चरुः, समुद्रः, स्रवः, त्रक्, रक्षः, संकसुकः, खलतिः । उणादिप्रत्ययान्ता एते "संप्रदानाच्चान्यत्रोणादयः ( ५- १ - १५ ) इति निषेधेनाप्राप्ता निपात्यन्ते || १४ || संप्रदानाच्चान्यत्रोणादयः ।। ५.१.१५ ।। संप्रदानादपादानाच्चान्यत्र कारके भावे चोखादयः प्रत्यया भवन्ति । कृत्त्वात् कर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति - कारुः, वातीति वायुः, कषितोऽसाfafa कर्मणि - कषिः, तन्यतेऽसाविति - तनुः ऋचन्ति तयेति ऋक्, वृत्तं तत्रेति वर्त्म, चरितं तत्रेति-चर्म । १५ ।। असरूपोऽपवादे बोत्सर्गः प्राकू क्तेः ॥ ५. १.१६ ॥ इतः सूत्रादारम्य स्त्रियां क्तिः " ( ५ -३ - ९१ ) इत्यतः प्राक् योऽपवादस्तद्विषयेऽपवादेनासमानरूप उत्सर्ग औत्सर्गिकः प्रत्ययो वा भवति । अवश्यलाव्यम्, अवश्यलवितव्यम्, श्रवश्यलवनीयम् । ज्ञः, ज्ञाता, ज्ञायकः । नन्दनः, नन्दकः, नन्दयिता । प्रसरूप इति किम् ? ध्यणि यो न स्यात्-कार्यम्, डविषयेऽण् न स्यात् - गोद: । 'अनु
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy