SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ । अथ पञ्चमोऽध्यायः प्रथमपादः । आ तुमोऽत्यादिः कृत् ।। ५. १. १ ॥ धातीविधीयमानस्त्यादिवजितो वक्ष्यमाणः प्रत्ययस्तुममभिव्याप्य कृत्संज्ञो भवति । घनघात्यः, उदकेविशीर्णम्, गोधायो जति । प्रत्याविरिति किम् ? प्रणिस्ते । कृत्प्रदेशाः"तिक-कृतौ नाम्नि" (५-१-७१) इत्येवमादयः॥१॥ न्या० स०-अहं आ सुमोऽत्यादिः कृव-घनघात्य इति-अत्र कृत्संज्ञायां 'कारक कृता' ३-१-६८ इति समासः । उपकेविशीर्णमिति-अत्र 'क्तेन' ३-१-६२ इति समासः, 'तत्पुरुषे कृति' ३-२-२० इत्यलुप् । गोदाय इत्यत्र तु 'ङस्युक्तं कृता' ३-१-४६ इति सः । बहुलम् ।। ५. १. २॥ अधिकारोऽयम् । कृत्प्रत्ययो यथा मिक्षिष्टादर्थावरम्यत्रापि बहलं भवति । पादाभ्यां ह्रियते-पावहारकः, गले चोप्यत इति-गलेचोपकः, मुह्यत्यनेनाऽऽत्मेति-मोहनीयं कर्म, स्नाति तेनेति-स्नानीयं चूर्णम्, एवंयानीयोऽश्वः । दीयते तस्मै इति-दानीयोऽतिथि:, संप्रमीयतेऽस्मा इति-संप्रदानम् , एवं-स्पृहणीया विभूतिः । समावर्तते तस्मादिति-समावर्तनीयो गुरुः, एक्सुद्धजनीयः खलः । तिष्ठन्त्यस्मिन्निति-स्थानीयं मगरम्, एवं-शयनीयः पल्याङ्कः॥२॥ न्या० स०-बहुलम्-अर्थादेरिति-आदिपदादुपपदधातू गृह्यते । स्पृहणीया विभूतिरिति-स्पृह्यतेऽस्यै स्पृहणीया विभूति: कर्मतापन्ना स्पृह्यत इत्यर्थः, व्याप्यस्य 'स्पृहेाप्य' २-२-२६ इति वा संप्रदान संज्ञा। कर्तरि ।। ५. १.३॥ कृत्प्रत्ययोऽर्थविशेषनिर्देशमन्तरेण कर्तरि भवति । कारकः, कर्ता, पचः, नन्दनः।३। व्याप्ये पुर-केलिम-कृष्णच्यम् ॥ ५. १.४॥ 'घर केलिम' इत्येतौ प्रत्ययौ कृष्टपच्यशब्दश्च व्याप्ये कर्तरि भवतीति वेदितव्यम् । घरो वक्ष्यते । केलिमोऽत एव वचनाद ज्ञायते, कृष्टपच्ये यश्च । भज्यते स्वयमेव--भङगुरं काठम, एवं-भिदुरः कुशूलः, छिदुरा रज्जुः। भास-मिदि-विदा कर्तयंव धुरः कर्मकर्तुरसंभवात, भासते इत्येवंशीलो-भासुरः, एवंमेदुरः, विदुरः । केचिच्छिदि-भिवोरपि कसरि घरमिच्छन्ति-"दोषान्धकारभिदुरो" दृप्तारितक्षश्छिदुरः इति । पच्यन्ते स्वमेव-पवेलिमा माषा:, एवं-भिदेलिमास्तण्डुलाः । कृष्टे पच्यन्ते स्वयमेव-कृष्टपच्याः शालयः ॥४॥ न्या० स०-व्याप्ये घुर०-केलिमोऽत एव वचनादिति-'विहाविसापचिभिद्यादेः केलिमः' ३५४ (उणादि) इति औणादिको नियतधातुविषयोऽयं तु सर्वविषय इत्याह ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy