SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ पदा-४, सूत्र-८७-६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १९९ आलोपपक्षे इति-दरिद्रोऽद्यतन्यां वा' ४-३-७६ इत्यनेनाऽद्यतनीविषयेऽपीत्यर्थः । ईशीडः सेध्वेस्वध्वमोः॥ ४. ४. ८७॥ आभ्यां परयोवर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चाविरिङ् भवति । ईश्,-ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम् , ईड्-ईडिरे, ईडिध्वे, ईडिष्व, ईडिध्वम् । समुदायद्वयापेक्षं द्विवचनम् , तेन स्वसहचरितस्य ध्वमो ग्रहणात् ह्यस्तनीध्वमि न भवति । ईशीडो: ऐड्दवम् । परोक्षासेध्वयोरामा भाव्यमिति वर्तमानासेध्वयोग्रहणम् । वचनमेवो यथासंख्यनिवृत्त्यर्थः ।। ८७ ।। न्या० स०-ईशीड:-ऐड्ढ्वमिति-ईशीडोस्तनीध्वमि 'यजसृज' २-१-८७ इति षत्वे तवर्गस्य' १-३-६० इति ढत्वे 'तृतोयस्तृतीय०' १-३-४६ इति षस्य डत्वे इति 'स्वरादेस्तासु' ४-४-३१ इति वृद्धिः । रुत्पञ्चकाच्छिदयः॥ ४. ४. ८८ ॥ रुदिस्वपि-अनिश्वसिजक्षिलक्षणानुत्पचकात्परस्य व्यञ्जनादेः शितोऽयकारादेरादिरिड् भवति । रोदिति, रुदितः, स्वपिति, स्वपितः, प्राणिति, प्राणितः, श्वसिति, स्वसितः, जक्षिति, जक्षितः । पञ्चकादिति किम् ? जागति । शिविति किम् ? स्वप्ता। व्यञ्जनादेरित्येष,-रुदन्ति । अयिति किम् ? रुचात् , स्वप्यात् ॥८॥ दिस्योरीट ॥ ४. ४. ८१ ॥ रुत्पश्चकात्परयोदिस्योः शितोरादिरीट् भवति । अरोदीत् , अरोदीः, अस्वपीत् , अस्वपीः, प्राणीत् , प्राणोः, अश्वसीत् , अश्वसीः, प्रजक्षीत् , अजक्षी: । दिस्योरिति किम् ? रोदिति । दिसाहचर्यात्सिा स्तन्या एव, तेन रोदिषि ॥९॥ अदश्वाट् ॥ ४. ४.१०॥ प्रत्ते रुत्पञ्चकाच्चपरयोदिस्योः शितोरादिरिट् भवति । आदत् , आदः, अरोवत् , अरोदः, अस्वपत् , अस्वपः, प्राणत् , प्राणः, अश्वसत् , अश्वसः, अजक्षत्, प्रजक्षः । दिस्योरित्येव ? अत्ति, अत्सि, रोदिति, रोविषि ।।१०।। संपरेः कृगः स्सटू ॥ ४. ४.११ ॥ संपरिभ्यां परस्य कृग आदिः स्सट् भवति । संस्करोति कन्याम् , भूषयतीत्यर्थः। संस्कृतं वचनम् , संस्कारो वासना, तत्र नः संस्कृतं समुक्तिमित्यर्थः। परिष्करोति कन्याम् । परिष्कृतम् , परिष्कारः, तत्र न: परिष्कृतम् । भूषासमवाययोरेवेच्छन्त्येके, तन्मतेऽन्यत्र परिकृतम् । पूर्व धातुरुपसर्गेण संबध्यते पश्चात्सायनेनेति विर्वचनावडागमाच्च पूर्व स्सडेव भवति।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy