SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्याससंवलिते [ पाद-३, सूत्र-६२-६४ ऊर्जादिस्योः परयोरौन भवति । पृथग्योगात् पूर्वेणापि प्राप्तः प्रतिषिध्यते । प्रौर्णोत् , प्रौर्णोः। विस्योरिति किम् ? प्रोणौति, प्रोपौषि । दिसाहचर्याद् हस्तन्या एव सिः ।। ६१॥ __न्या० स०-न दिस्योः-पृथगयोगादिति-अन्यथा वोर्णोरदिस्योरिति सूत्रं क्रियेत । पूर्वेणापोति-'उत औः' ४-३-५९ इत्यनेत्यर्थः । दिसाहर्यादित-प्राप्तिपूर्वको हि प्रतिषेधः प्राप्तिश्च 'वोर्णो:' ४-३-६० इत्यनेन । विति प्रत्यये इति-दिस्तावत् हस्तन्या एव तत्साहचर्यात् सिरपि हस्तन्या एव न तु वर्तमानायाः। तृहः श्नादीत् ॥ ४. ३. ६२॥ तृहः श्नात्परो व्यञ्जनादौ विति प्रत्यये परे ईद ईकारो भवति । तृणेढि, तृणेक्षि, तृणेह्मि, तृणेढु । प्रतृणेडित्यत्र व्यञ्जनादौ प्रत्ययेऽस्य विधानाव प्रत्ययाश्रयत्वमेव न वर्णाश्रयत्वम् वर्णस्य प्रत्ययविशेषणत्वादिति प्रत्ययलोपे प्रत्ययलक्षणं भवत्येव आद्यन्तवद्भावाच्च व्यञ्जनादित्वम् । व्यञ्जनादावित्येव,-तृणहानि, अतृणहम् । वितीत्येव,-तृण्डः, दीर्घनिर्देश उत्तरार्थः ॥ ६२ ॥ ब्रतः परादिः॥ ४. ३.६३॥ अव ऊत् बच ब्रूतेककारात्परो व्यञ्जनादौ विति प्रत्यये परे ईद्भवति, स च परादिः परावयवः । ब्रवीति, ब्रवीषि, ब्रवीमि, अब्रवीत् ।। ऊत इति किम् ? आत्थ । व्यञ्जनादावित्येव,-ब्रवाणि, अब्रवम् । वितीत्येव,बूत: ।। ६३ ॥ न्या० स०-अत:०-ब्रवीतीति-अत्र वचादेशो न ईतः परावयवत्वे शित्त्वात , न त तहि ब्रतः शिदिति क्रियतां किं गुरुणा सूत्रेण ? नैवं, एवं कृते ब्रवीतीत्यत्र गुणो न स्यात् । तहि श्विदिति क्रियताम् ? न, एवमपि कृते जंगमीति-जाज्ञेति इत्यादौ 'गमिषद्यमश्छ:' ४-२-१०६ ‘जा ज्ञाजनोऽत्यादौ ४-२-१०४. इत्याभ्यां छः जादेशश्च स्यात् , अत्यादेः सद्भावात् परादित्वे तु परभक्तत्वेन त्यादेरानन्तर्यान्न भवति । यतुरुस्तोर्बहुलम् ॥ ४. ३. ६४ ॥ यङ्लुबन्तात् तु रु स्तु इत्येतेभ्यश्च धातुभ्यः परो व्यञ्जनादौ विति प्रत्यये परे ईद्भवति, 'बहुलम्' शिष्टप्रयोगानुसारेण स च परादिः, क्वचिद्विकल्पः । बोभवीति, बोभोति, न तीति, नति, लालपीति, लालप्ति । क्वचिन्न भवतिवर्वति,-चर्कमि । अन्ये तु वावदीति लालपीति रोरवीतीति नित्यं,-बोभोति, बोमवीति, सोषोति, सोषवीति, चर्कति, चर्करोति इति विकल्पः, ननति, वर्वत्ति वर्वष्टि इत्यत्र न
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy