SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५० ] बृहवृत्ति लघुन्याससंवलिते [पाद ३, सूत्र-३७-४२ इत्यात्मनेपदतप्रत्यये 'स्वरदुहो वा' ३-४-९० इति विकल्पेन त्रिच् , कर्मणि तु नित्यं त्रिच स्यात् , एवमऽपूāत्यत्रापि। गमो वा ॥ ४.३.३७॥ गमेः परे प्रात्मनेपदविषये सिजाशिषौ किद्वद्वा भवत: । समगत, समगस्त चैत्रः, अगसाताम् अगसाताम् ग्रामौ चैत्रेण, संगसीष्ट, संगसीष्ट चैत्रः, गसीष्ट, गंसीष्ट, चैत्रेण ।। ३७॥ हनः सिच् ॥ ४. ३. ३८॥ हन्तेः पर आत्मनेपदविषयः सिच् किद्वद्भवति । पाहत,-हसाताम् ,आहसत ।। ३८॥ यमः सूचने ॥ ४. ३. ३१॥ सूचनं परदोषाविष्करणम् तत्र वर्तमानाद्यमे: पर आत्मनेपदविषयः सिच् किद्वद्भवति । उदायत, उदायसाताम् , उदायसत । 'प्राङो यमहनः स्वेऽङ्गे च' ( ३-३-८६ ) इत्यात्मनेपदम् । सूचन इति किम् ? प्रायंस्त कूपाद्रज्जुम् , उद्धृतवानित्यर्थः । सकर्मकात् 'समुदाडो यमेरग्रन्थे' ( ३-३-३८ ) इत्यात्मनेपदम् ।। ३९ ।। वा स्वीकृतौ ॥ ४. ३. ४० ॥ स्वीकृतौ वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच् किद्वद्वा भवति । उपायत, उपायंस्त महास्त्राणि, उपायत उपायंस्त कन्याम, मोपयध्वं भयं सीतां नोपायंस्त दशाननः । 'यमः स्वीकारे' ( ३-३-५६ ) इत्यात्मनेपदम् । स्वीकृताविति किम् । प्रायंस्त पाणिम् । सिजित्येव,-उपयंसीष्ट कन्याम् । उद्वाह एवेच्छन्त्यन्ये ॥ ४० ॥ इश्च स्थादः॥ ४. ३. ४१ ॥ ___ तिष्ठतेसिंज्ञाच्च धातोः पर आत्मनेपदविषयः सिच् किद्वद्भवति, तत्संनियोगे च स्थादोरन्तस्येकारादेशो भवति । उपास्थित, उपास्थिषाताम्, उपास्थिषत, वाम्,-व्यत्यदित, व्यत्यदिषाताम् वस्त्रे, देङ्-प्रदित पुत्रम् , डुदांगक्-अदित धनम् , दोच ,-व्यत्यदित दण्डौ, ट्ध,-व्यत्यधित स्तनौ, डुधांगक, अधित भारम् । स्थाद इति किम् ? दांवक्र्दैवीयंत्यदास्त व्यत्यदासाताम् , व्यत्यदासत । आत्मनेपद इत्येव,-अधासीत् ।। ४१ ॥ न्या० स०-इश्न स्थाद:-किवद्भवतीति-नन्विकारविधानादेव गुणो न भविष्यति किं सिचः किद्विधानेन ? सत्यं, विधानस्य ह्रस्वद्वारा 'धुट्हस्व' ४-३-७० इति सिच्लोपे चरितार्थत्वात् गुणः स्यात् । मृजोऽस्य वृद्धिः ॥ ४. ३. ४२ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy