SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-९-१० अकीति किम् ? संचस्कृवान् , संचस्क्राणः, आनच्छवान् , विचिकीर्वान् , वितितीनि , विततिराणः, विशिशीर्वान् , विशशिराणः, निपुपूर्वान् , निपपुराणः । काने पूर्व द्वित्वम् पश्चादिरादि: स्वरविधित्वात् ।। ८ ॥ न्या० स०-स्कच्छृतो०-परिग्रहार्थमिति-तेन संस्क्रियते,संचेस्क्रीयते, संस्क्रियात् इत्यादौ क्यङाशीर्य' ४-३-१० इति गुणो न भवति । संयोगादतः' ४-४-३७ इति इट् न विकल्पेन । विततिराण इति-व्यतिहारे कर्मण्यात्मनेपदम् । विशशिराण इति-विशशरे 'ऋः शप्रः' ४-४-२० इत्यनेन नवा ऋत्वे विशश्रे इति वा वाक्ये 'तत्र क्वसु' ५-२-२ इति कान प्रत्ययः, एवं निपपुराण इत्यत्रापि निपप्रे निपपरे वेति वाक्यम् । संयोगादृदः ॥ ४.३.१ ॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च परोक्षायां परतो गुणो भवति, अकि । सस्मरतुः, सस्मरः, सस्वरतुः, सस्वरुः, दद्वरतुः, दद्वरः, वध्वरतुः, दध्वरुः, ह्व-जह्वरतुः, जह्वरुः, प्रतिः, आरतुः प्रारः ।। संयोगादिति किम् ? चक्रतुः, चक्रुः । ऋदतरिति किम् ? चिक्षियतुः, चिक्षियुः । गुणप्रतिषेधविषये पुनःप्रसवार्थ वचनम् , वृद्धिस्तु भवत्येव ? सस्मार, सस्वार, ऋत: संयोगेन विशेषणादतिग्रहणम् । तिनिर्देश उत्तरार्थः ॥ ९ ॥ न्या० स०-संयोगा०-आरतुरिति-'इवर्णादेः' १-२-२१ इति रत्वेनापि सिध्यति परमन्तरङ्गत्वात् 'अवर्णस्येवर्णादिना' १-२-६ इति । द्वित्वाकारस्याग्रेतनऋकारेण सह रत्वबाधकोऽरादेशो माभूदित्यत्तिग्रहणमुत्तरार्थ च, अथ अरादेशेऽपि 'अस्थादेराः' ४-१-५८ इत्यात्वे सेत्स्यति, तदपि न, यतो द्विवचने पूर्वाकारस्य 'अस्यादेः' ४-१-६८ इत्यात्वमऽभाणि आरिवानित्यत्र त्वन्तरङ्गत्वानाश्रयणात् रत्वमेव । उत्तरार्थ इति-इह यलुबन्तस्यार्तेरनेकस्वरत्वात् परोक्षायामामि सति 'वेत्तेः कित्' ३-४-५१ इति सूत्रादामि परोक्षाकार्याऽभावान्न यङ लनिवृत्त्यर्थमिति वाच्यं, तत्रामभावादामि च सिद्ध एव गुणो यथा अरराञ्चकार अरियराञ्चकारेति । क्ययङाशीये॥ ४.३.१०॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि प्राशीःसंबन्धिनि ये च प्रत्यये गुणो भवति । स्मर्यते, स्वर्यते, अर्यते, सास्मयंते, सास्वर्यते, अरार्यते, स्मर्यात् , स्वर्यात , अर्यात् । औपदेशिकसंयोगग्रहणाविह न भवति-संस्क्रियते, संचेस्कोयते, संस्क्रियात् । ऋत इत्येव,-प्रास्तीर्यते, आतेस्तीर्यते, पास्तीर्यात् । आशीर्य इति किम् ? स्मषीष्ट, समषीष्ट । अर्ते रिति तिनिर्देशाबलपि न भवति । प्रारियात् , अप्रियात् ॥ १०॥ न्या. स०-क्यङा०-संस्क्रियत इति-कस्यादिरिति व्याख्यानेऽनुस्वारस्य व्यञ्जनत्वात् 'धटो धुटि' १-३-४८ इत्येकस्य सस्य वा लुक् । प्रारियादिति यङ लुपि द्वित्वे 'रिरोच' ४-१-५६ इति रागमे क्याति 'रिः शक्याशीर्ये' ४-३-११० इति धातो रिः, 'रो रे लुक'
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy