SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-९३-६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १३३ न्या० स० सिविदोऽभुवः-सिच: प्रत्ययादिति-भूवर्जनेन सिच् प्रत्ययो लभ्यते, अन्यथा षिचीत् इत्यस्य ग्रहणं स्यात् , अन: स्थाने इत्यधिकारेऽपि सिजित्युक्तेरद्यतन्या अन् लभ्यते, विदस्तु शिदेव अद्यतन्यां तु सिज् द्वारा अवेदिषुरिति । कश्चिदिति-तन्मते पूर्वसूत्रे विद्ग्रहणं ज्ञेयम् । प्रभूवनिति-यदा यङ लुबन्तस्तदापि * प्रकृतिग्रहणे 8 इति न्यायात् पुस् न भवति, नाप्युत्तरेण शितोऽभावात्ततोऽबोभूवन्निति भवति। व्युक्त-जक्षपञ्चतः॥ ४. २. १३ ॥ द्वे उक्ते यस्य व्युक्तः, पञ्चानां वर्गः पञ्चत् , जक्षाणां पञ्चत् जक्षपञ्चत , व्युक्ताद्धातोर्जक्षपञ्चतश्च परस्य शितोऽवितोऽन: स्थाने पुसादेशो भवति । प्रजुहवः, अविभयुः, अददुः, अनेनिजुः । भुवो यङ्लुपि अबोभवुः । जक्षादि-प्रजाः, अदरिद्रुः, अजागरुः, अचकासुः, प्रशासुः ।। ९३ ।। अन्तो नो लुक् ॥ ४. २. १४ ॥ व्युक्तजक्षपञ्चतः परस्य शितोऽवितोऽन्तः संबन्धिनो नकारस्य लुग्भवति । जुह्वति, जुतु, जुह्वव , जुह्वतौ, जुह्वतः, जुह्वतम् , ददति, वदतु, ददद, ददती स्त्री कले वा, जक्षति, जक्षत, जक्षत् दरिद्रति, दरिद्रतु, दरिद्रत , दरिद्रती स्त्री कुले वा, जाग्रति, जाग्रतु, जाग्रत् , चकासति, चकासतु, चकासत् , शासति, शासतु, शासत् ॥१४॥ न्या० स० -अन्तो नो लुक्-ददती स्त्री कुले वेति-'अवर्णादश्नः' २-१-११५ इत्यन्तादेशे न लुक् । जुह्वती इति तु नात्र ज्ञेयं नकारासंभवात्, ददती इत्यादौ तु भूतपूर्वकत्वेन स्थानित्वेन वाऽवर्णान्तत्वे संभवः । शौ वा ॥ ४. २. १५ ॥ व्युक्तजक्षपञ्चतः परस्यान्तो नकारस्य शिप्रत्यये वा लुग् भवति । ददति, ददन्ति, जक्षति, जक्षन्ति, दरिद्रति, दरिद्रन्ति, जाग्रति, जानन्ति, चकासति, चकासन्ति, शासति, शासन्ति, कुलानि शाविति किम् ? ददती दधती कुले ॥६५॥ श्नश्चातः॥ ४. २.१६॥ व्युक्तजक्षपञ्चतः श्नाप्रत्ययस्य च संबन्धिनः शित्यविति प्रत्यये परे आकारस्य लुग्भवति । मिमते, मिमताम्, अमिमत, संजिहते, संजिहताम् , समजिहत, यायति, यायतु, दरिद्रति, दरिद्रतु । श्ना-क्रीणन्ति, क्रीणन्तु, अकोणन् , लुनते, लुनताम् , अलुनत, पुनते, पुनताम् , अपुनत । श्नश्चेति किम् ? यान्ति, वान्ति । आत इति किम् ? बिभ्रति, जक्षति । अवितीत्येव, अजहाम , अकोणाम् ॥६६॥ एषामीळञ्जनेऽदः ॥ ४. २. १७ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy