SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १३० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-२, सूत्र-८२-८४ भिदेः परस्य तस्य नस्वाभावो निपात्यते शकलम् शकलपर्यायश्चेद्भित्तशब्दो भवति । भित्तम् शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् । शकलमिति पर्यायनिर्देश: किम् ? भिदिक्रियाविवक्षायां शकले विषये भिन्नमित्येव यथा स्यात् । भिन्नं शकलम् , भिन्न भितम् ।।१।। न्या० स०-भित्तं शकलम् -भिन्नं शकलमिति-वर्त्तते, किं तत् शकलं ? किं विशिष्टं भिन्न ? द्विधाकृतमिति विशेषणशब्दोऽत्र भिन्नशब्दः, यदि पुन: पर्यायशब्द: स्यात्तदा शकलस्याप्रयोगः स्यात् , पर्यायाणां हि प्रयोगो यौगपद्येन नेष्यते इति वचनात् ।' भिन्न भित्तमिति-भित्तं शकलमित्यर्थः । वित्तं धनप्रतीतम् ॥ ४. २. ८२ ॥ विन्दतेः परस्यक्तस्य नत्वाभावो निपात्यते, धनप्रतीतम् धनपर्यायः प्रतीतपर्यायश्च चेद्वित्तशब्दो भवति । विद्यते लभ्यते इति वित्तम् धनम् , विद्यते उपलभ्यतेऽसाविति वित्त: प्रतीतः । धनप्रतीतमिति किम ? विन:, वेतविदितम । विन्तेविन्नं वित्तं च, विद्यतेविनम । वित्तं धने प्रतीते च विन्दतेविनमन्यत्र ।।८२॥ हुधुटो हेर्थिः ।। ४. २. ८३ ॥ जुहोतेधुडन्ताच्च धातोः परस्य हेधिरादेशो भवति । जुहुधि, धुट छिन्छि, भिन्द्धि, अद्धि, विद्धि । हधुट इति किम् ? कोणीहि । हुधुड्भ्यां परत्वेन हेविशेषणादिह न भवति । रुदिहि, स्वपिहि । हेरिति किम ? जुहोतु, अत्तु । जुहुतात्वम् भित्तात्त्वमित्यत्र नित्यत्वाप्रकृत्यनपेक्षणेनान्तरङ्गत्वाच्च तातङ् । तस्य च न पुनधिभावो हेरिति शब्दाश्रयणात् । केचित्तु 'हिंसेर्हेरत' हिंस, 'भुजिभजिभ्यां तु वा' भुज भुग्धि, भञ्ज भङ्ग्धि इतीच्छन्तिनेतद्वैयाकरणरूपसंमतम् । हिन्धि इत्याद्येव तु भवति ॥३॥ . न्या० स०-हुधुटोहे-हुधुड्म्यां परत्वेनेति-एतत्तु न कृतं हुधुड्भ्यां विहितस्य हेः । रुदिहीति-आगमा यद्गुणीभूता इति न्यायादिट्सहितस्य हेरादेशः प्राप्तः स न भवति, हेरिति व्यक्त्याश्रयणात् , केवलस्य तु हुधुट्भ्यां परत्वेनेति भणनात् न भवति । हिन्धीति-अत्र 'सोधि वा' ४-३-७२ इति वा सलुक् , तद्विकल्पे च 'तृतीयस्तृतीय' १-३-४९ इति सस्य तु दः, तस्य च 'धुटो धुटि' १-३-४८ इति वा लुप् तेन हिन्दीत्यपि । शासस-हनः शाध्येधि-जहि ।। ४. २. ८४ ॥ शास् अस् हन् इत्येतेषां हिप्रत्ययातानां शाध्येधि जहि इत्येते आदेशा यथासंख्यं भवन्ति । शाधि, एधि, जहि । शास्हनोः यलुप्यपि शाधि, जहि, हनेस्तु यङ्लुपि नेच्छन्त्यन्ये ? जङ्घहि ।।४।। न्या० स० शाससहनः०- शास्हन्साहचर्यात् असिति आदादिकस्य ग्रहणम् । यङ्लुप्यपीति-अस्तेस्तु स्वरादित्वात् यङ् नास्ति, अथ णकादिविषये भू आदेशे
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy