SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२० ] बृहद्वृत्ति-लघुन्याससंवलिते. [पाद-२, सूत्र-४१-४३ दुट् क्विप्-दुषमाचष्टे दुषयति, पुणिग्रहणं निवृत्त्यर्थम् , ॐ ह्रस्वो न भवतीत्यन्ये, अदुषत् ।। ४० ॥ न्या० स०-ऊदुषो०-तत्प्रत्ययविज्ञानादिति-तस्य दुषेर्धातोः संबन्धी प्रत्ययस्तत्प्रत्ययः, दुषयतीत्यत्र तु न दुषिधातोः संबन्धी प्रत्ययः किं तहि 'णिज् बहुलं नाम्नः कृगादिषु' ३-४-४२ णिज् नाम्नः परतो विहितत्वान्नामसंबन्धी, यद्वा तत्प्रत्ययस्येत्थंव्याख्यानात्तस्माद्धातोरनन्तरःप्रत्ययः । ङनिवृत्त्यर्थमिति-तेन सामान्येन णौ भवतीति न तु ङ पर एवेत्यर्थः । न भवतीत्यन्ये इति-तन्मतसंग्रहार्थमूकारप्रश्लेषो विधेयः। अदुदूषदिति-दुष्यन्तं प्रायुक्त णिग् गुण उदुषा णौ ऊकारः । चित्ते वा ॥ ४. २. ४१ ॥ चित्तविषयस्य चित्तकर्तृ कस्य दुरुपान्त्यस्य णौ परे उद्वा भवति । चित्तं दुष्यति तदन्यः प्रयुङ्क्ते चित्तं दूषयति, चित्तं दोषयति, मनो दूषयति, मनो दोषयति । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञां दूषयति, प्रज्ञां दोषयति ।।४१।।। न्या० स०-चित्ते वा-प्रज्ञाया अपीति-चित्तसहचरितत्वात् प्रज्ञाऽपि चित्तमित्यर्थः। गोहः स्वरे ।। ४. २. ४२ ॥ कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्योद्भवति । निगृहति, निगृहयति, निगूहकः, साधुनिगूही, निगृहनिगूहम् , निजुगूह । गोह इति किम् ? निजुगुहतुः, निजुगुहुः । स्वर इति किम् ? निगोढा, निगोढुम् ।। ४२ ।। भुवो वः परोक्षाद्यतन्योः॥ ४. २. ४३ ॥ भवो वकारान्तस्य परोक्षाद्यतन्योः परतः उपान्त्यस्योद्भवति । बभूव, बभूवतुः, बभूवु, बभूविथ, बभूवुषः, बभूवुषा, प्रभूवन् , अभूवम् । वृद्धिगुणोवावेशेषु कृतेषु भुवो वका. रान्तत्वम् । व इति किम ? बभूवान् , प्रभूत् । प्रत्र भस्य माभूव । परोक्षाद्यतन्योरिति किम् ? भविष्यति ।। ४३ ॥ न्या० स०-भुवो वः०-भुवो वकारान्तस्येति अत्र पूर्वसूत्रात्स्वरऽनुवर्त्य ततश्च परोक्षाद्यतन्योः स्वरे परे इति व्याख्याने स्वयमेव वकारान्तत्वं लप्स्यते किं वग्रहणेन ? उच्यते, यदि स्वरोऽनुवर्यते तदा उत्तरसूत्रेऽनवर्तमानो दुनिवारः स्यात्तथा च स्रस्त इत्यादौ 'नो व्यञ्जनस्य' ४-२-४५ इति न लोपो न स्यात् , अत एव 'गमहन' ४-२-४४ इति सूत्रे स्वरग्रहणं, किं च वग्रहणाऽभावे बभूवेत्यादौ नित्यत्वादऽपवादत्वाच्च वृद्ध्यादिबाधया ऊकारोपान्त्यस्य भस्य ऊत्वप्रसङ्गः स्यादिति वग्रहणम् । प्रत्र भस्येति-उपान्त्यस्येत्यधिकारादित्यर्थः ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy