SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-२, सूत्र-९-१२ लीड्-लिनोर्वा ॥ ४. २. १ ॥ लीयतेलिनातेश्च यपि खलचल्वजितेऽक्ङिति प्रत्यये च विषयभूते आकारोऽन्तादेशो वा भवति । विलाय, विलीय, विलाता, विलेता, विलास्यते, विलेष्यते, विलास्यति, विलेष्यति, व्यलासीत , व्यलषीत् । अखलचलीत्येव,-ईषद्विलयः, विलयः, विलयो वर्तते । यबक्ङितीत्येव,-लोनः, विलीनः, लीयते, लेलीयते, लिनाति । डिल्लुप्ततिवोनिर्देशाङ्लुपि न भवति-लेलेति । ली द्रवीकरण इति यौजादिकस्य च न भवति-विलयति ।।६।। न्या० स-लोलिनोर्वा-णे विलाय इत्यपि सिद्धम् । लीन इति-'ऋल्वादेः' ४.२-६८ इति कैयादिकस्य देवादिकस्य 'सूयत्याद्यो' ४-२-७० इति नत्वम् । णौ क्री-जीङः ॥ ४. २. १० ॥ क्रींग , जि, इङ् इत्येतेषां गौ परे आकारोऽन्तादेशो भवति । क्रापयति, जापयति, अध्यापयति ॥१०॥ सिव्यतेरज्ञाने ॥ ४. २. ११ ॥ पिधच संराद्धावित्यस्याज्ञाने वर्तमानस्य णौ परतः स्वरस्याकारो भवति । मन्त्रं साधयति, तपः सापयति, अन्नं साधयति सामिकेभ्यो दातुम् । अज्ञान इति किम् ? तपस्तपस्विनं सेष्यति, सिध्यति जानीते तपस्वी ज्ञानविशेषमासादयति तं तपः प्रयुङ्क्ते इत्यर्थः । स्वान्येवैनं कर्माणि सेधयन्ति । अस्य अनुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् ? षिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति, तपः सेधयति । साधिनैव सिद्धे सिध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थं वचनम् ।।११।। न्या० स०-सिध्यतेर०-स्वरस्याकार इति-संध्यक्षरप्रस्तावात् स्वरस्येति लभ्यतेऽन्यथा 'षष्ठ्या अन्त्यस्य' ७.४.१०६ इति न्यायात् धकारस्यैव स्यात् । __सामिकेभ्य इति-समानो धर्मः सधर्मः स प्रयोजनमेषां 'प्रयोजनम्' ६-४-११७ इतीकण् , समानो धर्मोऽस्येति बहुव्रीहौ तु 'द्विपदाधर्मादऽन्' ७-३-१४१ स्यात् । कर्माणि सेधयन्तीति-सिध्यति अनुभवविशेषमासादयति तमेनं तपस्विनं कर्माणि प्रयुञ्जते । अनुभवविशेषमिति-अनुभवः साक्षात्कारः स च ज्ञानमेव । वि-स्फुरोर्नवा ॥ ४. २. १२ ॥ चिनोतेः स्फुरतेश्च णौ परे स्वरस्यात्वं वा भवति । चापयति, चाययति, स्फारयति, स्फोरयति ॥१२॥ न्या० स०-चिस्फुरो०-स्फरस्फलत् स्फुरणे इत्यनेनैव सिद्धे स्फुरेरात्ववचनं ण्यन्तात्सनि पुस्फारयिषतीत्येवमऽर्थम् ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy