SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयः पादः आत्संध्यतरस्य ॥ ४.२.१॥ धातोः सन्ध्यक्षरान्तस्याकारो भवति निनिमित्तः । व्यंग-संव्याता, देङ्-दाता, म्लैं-म्लाता, शों निशाता । अनैमित्तिकत्वादात्वस्य प्रागेव कृतत्वादाकारान्तलक्षण: प्रत्ययो भवति । सग्लः, सम्लः, सग्लानम, सम्लानम् । धातोरित्येव,-गोभ्याम, नौम्याम । संध्यक्षरस्येति किम् ? कर्ता । इह लाक्षणिकत्वान्न भवति-चेता, स्तोता ॥१॥ न्या० स०-आत् संध्यक्ष०-निनिमित्त इति-उत्तेरण सह पृथग्योगात् । . न शिति ॥ ४. २.२॥ धातोः संध्यक्षरान्तस्य शिति प्रत्यये वि कारोन भवति । ग्लायति, मलायति, संव्ययति ॥२॥ न्या० स०-न शिति-ग्लायतीति-गुण इति सान्वय संज्ञा समाश्रयणादऽत्र गुणाभावः, यतः सतो विशेषाघानं गुणः, अत्र त्वैकारस्य एकारे कर्तव्ये न तथा, समासान्तागमेति न्यायाद् वा न गुणः । गुण इति हि संज्ञा । व्यस्थवणवि ॥ ४.२.३॥ व्ययतेस्थवि वि च विषयभूते प्राकारो न भवति । संविव्ययिथ, संविव्याय, अहं संविव्यय । थवणवीति किम् ? संव्याता, संव्यातुम् । केचित्तु परोक्षामात्रे आत्वप्रतिषेधमिच्छन्तो व्येगो वृद्विधि विकल्पयन्ति । तेन त्वक्त्रः संविध्ययुर्वेहान इति सिद्धम् । तदपरे पाठभ्रम एवायमिति मन्यन्ते, त्वक्त्रः संविव्युरङ्गानि इति तु सम्यक्पाठः। एवं ____ 'संविव्ययुर्वसनचारु चमूसमुत्थं, पृथ्वीरज: करभकण्ठकडारमाशाः' । इत्यत्रापि संविव्युरम्बरविकासि चमूसमुत्थमिति सत्पाठः ॥ ३ ॥ स्फुर-स्फुलोजि ॥ ४. २. ४ ॥ स्फुरस्फुलोर्घजि संध्यक्षरस्याकारो भवति । विस्फारः, विस्फालः, विष्फारः, विष्फालः । 'वे:' (२-३-५४) इति वा षत्वम् । घनीति किम् ? विस्फोरकः ॥४॥ २-.26 वापगुरो णमि ॥४. २.५ ॥ अपपूर्वस्य गुरति इत्यस्य धातोः संध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा भवति । अपगारमपगारम , अपगोरमपगोरम् । आभीक्ष्ण्ये रुणम् द्वित्वं च । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्ते । 'द्वितीयया' ( ५-४-७८ ) इति णम् ॥५॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy