SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-१०५-१०८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१०३ ३.२-८४ इति प्राक् दृष्टम् । यियविषतीति-प्रथमं गुणं बाधित्वा दीर्घ सकृद्गते इति प्रवर्तते । तनो वा ॥ ४. १. १०५ ॥ तनोतेधुडादौ सनि परे स्वरस्य दी? वा भवति । तितांसति, तितंसति । धुटीस्येव,-वितितनिषति । यङ्लुपि,-तंतनिषति ॥१०॥ न्या० स० तनो वा-तंतनिषतीति-'इवृध' ४-४-४७ इतीटि विकल्पात्तितांसति तितंसतीत्यपि । क्रमः क्वि वा ॥४. १. १०६ ।। क्रमः स्वरस्य धुडादौ क्त्वाप्रत्यये वा दीर्घो भवति । कान्त्वा, क्रन्त्वा। धुटि इत्येव,-क्रमित्वा । 'ऊदितो वा' (४-४-४२) इति वेट् । प्रकम्येत्यत्र त्वन्तरङ्गमपि दीर्घत्वं बाधित्वा प्रागेव यप , एतच्च 'यपि चादो जग्ध' (४-४-१६) इत्यत्र ज्ञापयिष्यते ।।१०६॥ अहन्पञ्चमस्य विवक्ङिति ॥ ४. १. १०७॥ हनवजितस्य पञ्चमान्तस्य धातोः स्वरस्य क्वौ धुडादौ च क्ङिति प्रत्यये दी? भवति । प्रशान्, प्रतान् , प्रदान , प्रशामौ, प्रतामो, प्रदामौ। किति-शान्तः, शान्तवान्, शान्त्वा, शान्ति, एवं तान्तः, दान्तः । डिति-शंशान्तः, तन्तान्तः, दंदान्तः । पञ्चमस्येति किम् ? प्रोदनपक्, पक्त्वा । अहन्निति किम् ? वृत्रहणि, भ्रूणहनि । विवक्ङिति इति किम् ? गन्ता, रन्ता । धुटीत्येव,-यम्यते, यंयम्यते । कश्चित्त्वाचारक्वावपि दीर्घत्वमिच्छति । कमिवाचरति कामति, एवं शम्-शामति, किम् कोमति, इदम्-इदामति ।१०७। न्या० स० प्रहनपञ्चम०-प्रशानिति-नादेशस्य परेऽसत्त्वान्नलोपाभावः, हन्वर्जनात उपदेशावस्थायां पञ्चमो गृह्यते, तेन सुगणित्यत्र दी| न । वृत्रहणीति-संज्ञायां 'पूर्वपदस्था' २-३-६४ इति असंज्ञायां तु 'कवर्गक' २-३-७६ इति णत्वं, कश्चित्तु आचारकाविति-स्वमते तु तस्मिन् धातुत्वाऽभावान्न दीर्घः । अनुनासिके चच्छवः शूट ॥ ४. १. १०८॥ अनुनासिकादौ क्वौ धुडादौ प्रत्यये च धातोश्च्छकारवकारयोर्यथासंख्यं श् ऊट इत्येतावादेशौ भवतः । प्रश्नः, विश्नः, छस्य द्विःपाठात् द्वयोरपि शकारः । क्वि-शब्दप्राट, शब्दप्राशौ, गोविट , गोविशौ, धुट-पृष्टः, पृष्टवान , प्रष्टा, प्रष्टुम् , स्योमा, स्योनः । सिवेमनि प्रत्यये औणादिके च ने लघूपान्त्यगुणात्पूर्वमूट क्रियते नित्यत्वात-तत्र कृतेऽल्पाश्रितत्वेनान्तरङ्गत्वाद्यत्वं न तु गुणः । अक्षय :, हिरण्ययुः । * 'प्रसिद्ध बहिरङ्गमन्तरङ्ग' * इति स्वरानन्तर्य नेष्यते तेन यत्वं भवति । द्यूतः, द्यूतवान् , दुधूषति । वकारस्य विकल्पेनानुनासिकत्वाद्वन्क्वनिपोः सुस्योवा, सुस्यूवा, पक्षे, सुसेवा, सुसित्वेत्यपि सिद्धम् । धातोरित्येव,दिवेरौणादिकडिवप्रत्ययान्तस्य धुभ्याम् , द्युभिः,-यदा तु दिवेः क्विप् तदा धातुत्वात धुभ्यां
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy