SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ६४ ] बृहवृत्ति लघून्याससंवलिते [पाद १, सूत्र-६९-७२ न्या० स०-अस्यादे०-'लुगस्यादेत्यपदे' २-१-११३ इत्यस्याऽपवाद:। उत्तरार्थमिति-इह तु परोक्षाया अन्यस्मिन् यङादौ प्रत्यये द्वित्वे सति आदावकारस्याऽसम्भवात् । अनातो नश्चान्त ऋदाद्यशौसंयोगस्य ॥ ४. १. ६१ ॥ ऋकारादेरश्नोतेः संयोगान्तस्य च धातोः परोक्षायां द्वित्वे पूर्वस्यादेरकारस्यानात प्राकारस्थानेऽनिष्पन्नस्याकारो भवति कृताकारात्त्वस्मान्नोऽन्तश्च । ऋदादि,-आनधतुः,प्रानधुः आनृजे, प्रानृजाते, प्रानजिरे, अशो, आनशे, आनशाते, आनशिरे । संयोग,-आनर्च, मानतः आनञ्ज, आनञ्जतुः, आनङ्ग, प्रानन्त, आनर्छ, आनईतः। ऋदादेरिति किम? प्रार, आरतः। अशावित्योकारः किम ? अश्नातेभित , प्राश, आशतः। संयोगस्येति किम् ? आट, आटतुः । अनात इति किम् ? आछु, आयामे-आञ्छ, प्राञ्छतुः । . कश्चिदत्रापीच्छति । आनाञ्छ, आनाञ्छतुः आनाञ्छुः ।।६९। न्या० स०- अनातो न-न विद्यते आत् स्थानितयाऽस्यो प्रानछेति-प्रथम द्वित्वं तत: 'स्कृच्छ्रतः' ४-३-८ इति गुणः । आरेति ऋक ऋप्रापणे वा णव द्वित्वं 'ऋतोऽत्' ४-१-३८ 'अस्यादेः, ४-१-६८ इति आकारस्ततो 'नामिनोऽकलि' ४.३-५१ इति वृद्धिः, आद्यन्तवदेकस्मिन्नित्यपि न यतो यथाऽन्त्यव्यपदेशे ऋदादित्वं एवमादिव्यपदेशे ऋदन्तत्वमपि तत ऋत् आदिरेव यस्येत्यवधारणेनाऽस्य निरासः । भूस्वपोरदुतौ ॥ ४. १. ७० ॥ भूस्वप् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमकारोकारौ भवतः । बभूव, बभूवतुः, बभूवे चैत्रेण, अनुवभूवे कम्बलः साधुना, सुष्वाप, सुष्वपिथ । परोक्षायामित्येव,-बुभूपति, बोमवाचकार । केचित्त कर्तर्येव भुवोऽकारमिच्छन्ति न भावकर्मणो तेन बुभूवे चैत्रेण, अनुबुभूवे कम्बलः साधुनेत्येव भवति ॥७॥ न्या० स० ज्याव्यव्यधि०-संविव्यायेति-'यजादिवशवचः' ४-१-७२ इति य्वबाध. नार्थमिफारस्यापि इ: । विव्यचिथेति-'कुटादेङिद्वत्' ४-३-१७ इत्यनेनेटो ङित्वेऽपि व्यचोऽनसि' ४-१-८२ इति न वृत् , समासान्तागम इति न्यायात् कुटादिगणनिर्दिष्टस्य ङित्वस्याऽनित्यत्वात्। ज्याव्येव्यधिव्यचिव्यथेरिः ॥ ४. १. ७१. ॥ एषां परोक्षायां द्वित्वे सति पूर्वस्येकारो भवति । ज्या,-जिज्यौ, जिज्यिथ । व्येगसंविव्याय, संविव्ययिथ । व्यध-विव्याध, विव्यधिथ । व्यच् ,-विव्याच, विचिथ । व्यथ ,विव्यथे, विव्यथाते, विव्यथिरे परोक्षायामित्येव,-वाव्यथ्यते ।।७१॥ यजादिवशवचः सस्वरान्तस्था वृत् ॥ ४. १. ७२ ॥ यजादीनां वशवचोश्च परोक्षायां द्वित्वे सति पूर्वस्य सस्वरान्तस्था म्वृत् इकार
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy