SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-२६-२९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः न्या० स०-तुत्रप०-तेरतुरिति-प्राक्तु स्वरे ४-१-१ इति भणनात् पूर्ण द्वित्वे 'स्कृच्छतोकि' ४-३-८ इति गुणेऽस्य एत्वे न च द्विरिति वचनात् कृतमपि द्वित्वं निबर्तते, एवं जुधातोरपि ज्ञेयं, गुणरूपत्वात् 'न शस' ४-१-३० इति निषेधः स्यादित्याह-तरतेरित्यादि । बहुवचनमिति-अन्यथा निरनुबन्धग्रहण इत्यनेन त्रिफला इत्यस्य न स्यात् । ज-भ्रम-बम-त्रस-फण-स्यम-स्वन-राज-भ्राज-भ्रास-भ्लासो वा। ४.१.२६ एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं वा भवति, न चैते द्विर्भवन्ति । जेरतुः, जजरतुः, जेरिथ, जजरिथ, भ्रमतु, बभ्रमतुः, भ्रमिथ, बभ्रमिथ, वेमतु, ववमतुः, वेमिथ, अवमिथ । 'उद्वेमुस्तत्र रुधिरं रथिनोऽन्योन्यवोक्षिताः' । वमर्नेच्छन्त्यन्ये वेसतुः, तत्रसतुः, सिथ, तत्रसिथ फेणतुः, पफणतुः, फेणिथ, पफणिथ, स्येमतुः, सस्यमतुः, स्येमिथ, सस्यमिथ, स्वेनतुः, सस्वनतुः, स्वेनिथ, सस्वनिथ, रेजतुः, रराजतुः, रेजिथ, रराजिथ, भेजे, बभ्राजे, भ्रसे, बभ्रासे, म्लेसे, बम्लासे । अविदित्येव.-अहं जजर ॥२६॥ न्या० स०-जभ्रमवम०-राजसहचरितभ्राजेरेव ग्रहणमिति पारायणे निर्णीतम् । श्रन्थ-ग्रन्थो न्लुक् च ॥ ४. १. २७॥ अनयोः स्वरस्यावित्परोक्षासेट्थवोरेकारादेशो वा भवति, तत्संनियोगे च नकारस्य लुक् ,-न चैतौ द्विर्भवतः । श्रेथतुः, शश्रन्थतुः, श्रेथिथ, शश्रन्थिथ, प्रेथतुः, जग्रन्थतुः, प्रेथिथ, जग्रन्थिथ । अविदित्येव,-शश्रन्थ, जग्रन्थ ।। २७ ।। न्या० स०-श्रन्थग्रन्थ-श्रथुङ ग्रथुङड् इत्यनयोर्लाक्षणिकत्वान्न भवति, प्रकृतिप्रत्ययोर्वचनभेदान्न यथासंख्यम्' । दम्भः ॥ ४. १. २८॥ - दम्भेरवित्परोक्षायां स्वरस्य एकारादेशो भवति,-तत्संनियोगे नकारस्य लुक , न चायं द्विर्भवति । देमतुः, देभुः । प्रविदित्येव,-ददम्भ ॥२८॥ न्या० स० थेवा-वर्तमाना थप्रत्यये स्वादेः श्नुना व्यवधानात् प्राप्त्यभाव इति परोक्षाया एव थप्रत्यय ग्रहणम् । थे वा ॥ ४. १. २१ ॥ दम्भेः स्वरस्य थे परे एकारादेशो वा भवति, तत्संनियोगे च नकारस्य लुक , न चायं द्विर्भवति । देभिथ, ददम्मिथ ।। __ अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेवमिच्छन्ति नलोपं त्वविति परोक्षायां नित्यमेव, तेन श्रेथतुः, ग्रंथतुः, देभतुः, नलोपाभावे तु शश्रन्थिथ, जग्रन्थिथ दवम्भिथेत्येव भवति । अन्यस्त्ववित्परोक्षासेटूथवोनित्यमेत्वमिच्छति नलोपं त्वविति परोक्षायामेव, तेन श्रेथतुः ग्रंथतुः वेभतुः नलोपाभावेऽपि श्रेन्थिथ, प्रेन्थिथ, देम्भिवेत्येवेच्छति ।२९।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy