SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ६७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६५ चेहानुवर्तत इति परिमाणार्थस्य न भवति । अन्ये तु गोपहतयोरपीच्छन्ति, पादाभ्यां गच्छतीति-पद्गः, पादाभ्यामुपहतः पदुपहतः, कथं हस्तिपादस्यापत्यं हास्तिपद इत्यत्र अपत्याणि पद्भावः । 'कौपिजलहास्तिपदादण' [६. ३. १७०.] इति निर्देशाद्भविष्यति, पादाभ्यां चरति पदिक इति तु 'पदिकः' [६. ४. १३.] इति निपातनात् ।। ६६ ।।। न्या० स०--हिमहति०। पादसंबन्धिनि ये चेति प्रत्यासत्त्या आवृत्त्या वा पादस्य यो यः प्रत्ययस्तस्मिन् न तु समाससंबन्धिनीत्यर्थः। 'विध्यत्यनन्येन' [७.१.८.] 'दिगादिदहांशाद्यः' [६. ३. १२४. ] 'प्राण्यङ्गरथखल' [७. १. ३७. ] इत्यादिना पद्या: शर्करा इत्यादिषु त्रिषु उदाहरणेषु यथाक्रमं ज्ञातव्यानि । निपातनादिति अयमर्थः यथा 'पाद्यार्पा' [७. १. २३.] इति सूत्रनिपातनात् प्रत्ययोऽनुक्तोऽप्यानीयते तथा10 पद्भावाभावोऽपि निपात्यत इति । समाससंबन्धिनीति अयमर्थः न हि पादशब्दात् केवलादेव यप्रत्ययो विधीयते किंतु पादान्ताद् द्विगोः। ततश्च 'प्रत्ययः प्रकृत्यादेः' [७. ४. ११५.] इति यस्मात् प्रत्ययो विधीयते, तदादेरेव ग्राहको न, तदवयवस्येति नाऽयं पादसंबन्धी यः किन्तु द्विगोरिति न भवति । पणपादमाषाथ इति अत्र सूत्रे पणमाषसाहचर्यात् पादशब्दः परिमाणार्थ एव गृह्यते न प्राण्यङ्गवचन इति । आज्यादिष्विति15 यत आज्यादयः क्रियावचनाः । आजिशब्दो हि युद्धक्रियावचनः उपहतशब्दश्च हननक्रियावचनः, तत्र च करणभावः प्राण्यङ्गस्यैव, न परिमाणार्थस्य पादशब्दस्य चतुर्भागार्थस्य । अपत्यारणीति अत एव निर्देशाद् 'अत इञ्' [६. १. ३१.] इतीजं बाधित्वा 'ङसोऽपत्ये' [६. १. २८.] इत्यण प्रत्ययो भवति ।। ३. २. ६६ ।। 20 ऋचः स ॥ ३. २. १७ ॥ ___ ऋचः संबन्धिनः पादस्य शकारादौ शस्प्रत्यये पदित्ययमादेशो भवति । पादं पादं गायत्र्याः शंसति, पच्छां गायत्री शंसति, वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य 'वृत्तौ निवृत्तत्वात् स्वाभाविक शंसनक्रियापेक्षं कर्मत्वं भवति, ऋच इति किम् ? पादं पादं कार्षापरणस्य ददाति पादशः कार्षापणं ददाति, एवं पादशः श्लोक व्याचष्टे । शसो द्विःशकारपाठात् विभक्तिशसि न भवति,25 ऋचः पादान् पश्य ।। ६७ ।। न्या० स०--ऋचः शसि । ऋचः पादो नामेयत्तावच्छिन्नोऽक्षरपिण्ड इति नात्र प्राण्यङ्गार्थस्य पादशब्दस्य संभव इति सामान्येन न ग्रहणम् । वाक्यगम्यस्येति ननु चेह पादं गायत्र्याः शंसतीति गायत्र्याः पादशब्देन संबन्धाद् वाक्यववृत्तावपि षष्ठया
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy