SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ५८२ ] बृहद्वृत्ति - लघुन्याससंवलिते [पा० २. सू० ६९-७०.] महद्वासः, महाविशिष्टः, महद्विशिष्टः । महत इति किम् ? राजकर:करादिष्विति किम् ? महतः पुत्रः महत्पुत्रः, डकारोऽन्त्यस्वरादिलोपार्थः, स च उत्तरार्थः ।। ६८ ।। स्त्रियाम् ॥। ३. २. ६६ ॥ स्त्रियां वर्तमानस्य महतः करादिषूत्तरपदेषु नित्यं डा प्रन्तादेशो भवति । 5 कर:- महाकरः, एवं महाघासः, महाविशिष्ट: । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति पूर्वेणैव सिद्धे, नित्यार्थमिदम् ।। ६६ ।। महत्याः जातीयैकार्थेऽच्वेः ।। ३. २. ७० ।। महतोऽच्व्यन्तस्य जातीयप्रत्यये, एकार्थे चोत्तरपदे डान्तादेशो भवति । महान् प्रकारोऽस्य इत्यादि, महाजातीयः, महाजातीया । एकार्थे, - महांश्चासौ 10 वीरश्च महावीरः । एवं महामुनिः, महान् भागोऽस्य - महाभागः । एवं महायशाः । महती चासौ देवी च - महादेवी, एवं महाराज्ञी, महती कीर्तिरस्य महाकीर्तिः, महास्तुतिः, महांश्चासौ करश्च, महान् करोऽस्येति वा महाकरः, एवं महाघासः, महाविशिष्टः, महान्तमात्मानं मन्यते महामानी, एवं महंमन्यः - खशि डाह्रस्वत्वे मोऽन्तः । जातीय - एकार्थ इति किम् ? प्रकृष्टो महान् महत्तरः, महत्या: 15 पुत्रो महतीपुत्रः महत्याः पतिः महतीपतिः, अच्वेरिति किम् ? महान् महान् संपन्नो महद्भूतश्चन्द्रमाः, अमहती महती संपन्ना महद्भूता कन्या ।। ७० ।। न्या० स० -- जातीयैका० । महाकर इति करादिष्वपि सामानाधिकरण्य ( सामानाधिकरण्ये परत्वादिति पाठान्तरम् ) फलत्वान्नित्यमस्य प्रवृत्ति दर्शयितुमाह - 20 एकार्थ इति किमिति नन्वेकार्थं इति किमर्थं जातीये चेति कृतेऽपि चकारेण उत्तरपदाकर्षणात् तेन च समासाक्षेपात् लक्षणप्रतिपदोक्त परिभाषया च 'सन्महत्परम' [३.१.१०७.] इति प्रतिपदोक्तस्यैव समासस्य ग्रहरणाल्लाक्षणिके षष्ठीतत्पुरुषे न भविष्यति ? नैवं, षष्ठीतत्पुरुषवत् महान् भागोऽस्येत्यादी बहुव्रीहावपि न स्यात् । महान् संपन्न इति संपन्न इत्यर्थकथनम्, अमहान् महान् भूत इति तु दृश्यमऽन्यथा च्वेरऽभावः ।। ३. २.७० ॥25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy