SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ ५८० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ६५-६६.] एकार्थेषु ह्रस्वोऽन्तादेशो भवति । गौरितरा, गौरितमा, नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गागिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता। परत्वाद्यथाप्राप्तं वद्भावं बाधते । ङ्य इति किम् ? मद्रिकातरा, कारिकातमा, दत्तारूपा, सेनानीरूपा, ग्रामणीकल्पा । परतः स्त्रिया इत्येव ? बदरीतरा, आमलकीतरा । एकार्थ इत्येव ? ब्राह्मण्या हता ब्राह्मणीहता, 5 'नवैकस्वराणाम्' [३. २. ६६.] इत्युत्तरत्र वचनादतेकस्वरस्यैवायं विधि: ।। ६४ ॥ न्या० स०--डयः। परत्वादिति दर्शनीयतरा विद्वद्वन्दारिकेत्यादौ पुभाव: सावकाशः, नर्तकिरूपेत्यादौ तु कोपान्त्यत्वात् पुभावप्रतिषेधादयं विधिः गौरितरेत्यादौ तुभयप्राप्ती 'स्पर्द्ध परः' [ ७. ४. ११६. ] इति परत्वादयमेव विधिरित्यर्थः । 'मलि10 मल्लि धारणे'। आमलिषीष्ट पुष्पफलानीति 'तिक्कृतौ नाम्नि' [ ५. १. ७१. ] इति अकः । अथवा अमण प्रामयति श्लेष्मप्रधानमिति आमलकी। 'कीचक' ३३ (उणादि) इति अकान्तो निपात्यते 'जातेरयान्त' [२. ४. ५४.] इति ङी। यन्मते नित्यस्त्री तन्मते गौरादित्वात् डी । स्वमते तु त्रिलिङ्गः ।। ३. २. ६४ ॥ भोगवद्गोरिमतो म्नि ॥ ३. २. ६५ ॥ 15 भोगवद्गौरिमतो म्नि संज्ञायां वर्तमानयोर्डीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेष्वेकार्थेषु ह्रस्वो भवति । भोगवतितरा, भोगवतितमा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली, भोगवतिगोत्रा, गौरिमतिमता, भोगवतिहता । नाम्नीति किम् ? भोगवतितरा, भोगवत्तरा, भोगवतीतरा, एवं गौरिमतितरेत्यादि । उदित्त्वात्पूर्वेण20 त्रैरूप्यम् ।। ६५ ।। न्या० स०--भोगवद् । भोगवतीति भोगाः सर्पकञ्चुकाः सन्त्यस्यां भोगावती नाम नदी 'अनजिरादि' [३. २.७८.] इति दीर्घत्वं ततोऽत एव निर्देशात् पूर्वस्य ह्रस्वत्वम् । गौरिमतीत्यत्र तु 'ड्यापो बहुलम्' [२.४.६६.] इति मतो ह्रस्वः । गौरीति गौरस्यापत्यं इञ् 'नुर्जाते:' [ २. ४. ७२. ] इति ङी: गौरादित्वाद्वा ।। ३. २. ६५ ।। 25 नवैकस्वराणाम् ॥ ३. २. ६६ ॥ बहुवचनात्परतः स्त्रीति निवृत्तम्, सामान्येन तु विधानम्, स्त्र्येकार्थे
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy