SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ५७० ] बृहत्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ५२.] [२. ४. ५०] इति सूत्रे सपत्नीति समुदायनिपातनात्, अत एव सपत्नीभार्य इत्यत्रापि न भवति, सपत्नस्यायं सापत्न इति वा भविष्यति । तद्धितयस्वर इति विषयसप्तम्याश्रयणं किम् ? पटव्याः भावः-पाटवम्, अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे लघ्वादित्वात् 'वृवरल्लघ्वादेः' [७. १. ६६.] इत्यरण भवति । परसप्तमीसमाश्रयणे तु पट्वीशब्दस्य लघ्वादित्वाभावात्तत्तोऽण 5 न स्यादिति । यस्वर इति किम् ? पट्ट्या आगतम् पट्वीरूप्यम् पट्वीमयम् ।। ५१ ।।। न्या० स०--जातिश्च रिण। पटयतीति णिजि पुंवद्भावे 'नामिनोऽकलिहले.' [ ४. ३. ५१. ] इति वृद्धौ अन्त्यस्वरादिलोपे। यद्यत्र वृद्धिमकृत्वैव उकारस्यैव लोपं विदध्यात् ततोऽपीपटदित्यादौ समानलोपित्वादित्वं न स्यात् । ऐत्यमिति 'वर्णदृढादिभ्यः' 10 [७. १. ५६. ] ट्यण । औशिज्य इति वशक्० वष्टि न्यायं, वशेः कित् इज् 'वशेरयङि' [ ४. १. ८३. ] वृत् उशिजोऽपत्यं 'पुरुषमगध' [६. १. ११६. ] इत्यण 'ट्रेन' [ ६. १. १२३. ] लोपः उशिजि साधुः। गार्ग्य इत्यादि 'वृद्धस्त्रियाः क्षेपे णेकणौ' [६. १. ८७. ] ततः पुवत्त्वे 'तद्धितयस्वरेऽनादि' [ २. ४. ६२. ] इति यलोपः । पुंवद्धावस्यानित्यत्वादिति गर्गादित्वाद् यत्रि पुवद्भावे तु 'नोऽपदस्य' [ ७. ४. ६१. ]15 इत्यन्त्यस्वरादिलोपे कौण्डय इति स्यात् । अत एव चेति अनित्यत्वादेवेत्यर्थः, मनोर्भार्या 'मनोरौ च वा' [ २. ४. ६१. ] ङी ऐश्च । मनाय्या अपत्यं 'गर्गादेर्यम्' [ ६. १. ४२.] . मानाय्यः। सपल्या अपत्यं 'शिवादेरण' [६. १. ६०.] सापन्नः। ननु मनायीशब्दस्य गर्गादिपाठात् स्वयमेव न भविष्यति । यथा यौवतमित्यत्र भिक्षादिपीठात स्त्रोलिङ्गस्य युवतिशब्दस्य वद्भावो न भवति एवमत्राऽपि ? उच्यते, गर्गादिगणेऽणे-20 ययोः प्राप्तावस्य पाठ इति तत्राप्युक्त ततश्च पुवद्भावः प्राप्नोति स मा भूदिति कौण्डिन्यनिर्देशात् पुवद्भावो न भवतीत्युक्तम् । सपत्नस्यायमिति सपत्नशब्दश्च सपत्न्यास्तुल्यः 'अः सपत्न्याः ' [७. १. ११०.] ण औरणादिको वा। पाटवमिति अत्र ह्यविषये पुवद्भावस्ततोऽण ।। ३. २. ५१ ॥ एयेवनायी ॥३. २. ५२ ॥ 25 तद्धिते एयप्रत्यये परे अग्नाय्येव परतः स्त्री पुंवद्भवति । अग्नाय्या अपत्यम् आग्नेयः, अग्नायी देवताऽस्य आग्नेयः,-स्थालीपाकः । पूर्वेण सिद्ध नियमार्थं वचनम्-तेन श्यनेयः, रौहिणेयः-अत्र पूर्वेणापि पुंवद्भावो न भवति ॥ ५२ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy