SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५६६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ४८.] शोधने-प्रकर्षेणैत्यागच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः, चिन्त्यते स्मर्यते इति । चित्तम् चितिश्च व्रतम्, प्रायश्चित्तं चिन्तितं किल्बिषविशुद्धये प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिक्रमणादि, एवं प्रायश्चित्तिः, पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये, प्रायःश्चित्तम्, प्रायःश्चित्तिः, अन्ये सु प्रायणं प्रायः 5 तस्य चित्तं प्रायश्चित्तं प्रायश्चित्तिरित्यपि मन्यन्ते, शष्कुली कृतान्न-शष्कुलशब्दाद्गौरादित्वात् ङीः, कृतान्नादन्यत्र शकुली मत्स्यविशेषः, गोष्पदं गोसेविते प्रमाणे च-यत्र गावः पद्यन्ते स गोभिः सेवितो ग्रामसमीपादिर्देश उच्यते, प्रमाणे गोष्पदपूरं वृष्टो देवः, गोष्पदमात्रं क्षेत्रम्-अत्र गोः पदमन्यस्येयत्तां परिच्छेत्तुमुपादीयमानं प्रमाणं भवति, अन्यत्र गोपदम्, अगोष्पदं सेवारहित, न10 विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि, अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान् ननु गोष्पदप्रतिषेधादगोष्पदमिति सिध्यति, सत्यम्, किं तु यत्र गवां प्रसङ्गो न ताभिः सेवितस्तत्रैव स्यात् । यथा यत्र शुक्लगुणप्रसङ्गः स एवाशुक्ल इति भवति, नात्माकाशादि। यत्र तु गवामत्यन्तासंभवस्तत्र न स्यात्, तत्रापि यथा स्यादित्येवमर्थं निपातनम् । न विद्यते गोः पदं यत्रेति15 त्रिपदबहुव्रीहिविवक्षायां रूपान्तरनिवृत्त्यर्थम् च बहुवचनमाकृतिगणार्थम्, तेनावोवचपरोवरादयोऽपि द्रष्टव्याः ।। ४८ ।। न्या० स०--वर्चस्का०। 'युवर्ण' [५. ३. २८.] इत्यलि अवस्करः । कुत्सिता तुम्बुरुरित्यत्र बाहुलकात् स्त्रीत्वम् । आस्पदमिति प्रापद्यते प्राप्यते सद्भिः वर्षादित्वादल। मस्कर इति 'पुन्नाम्नि घः' [ ५. ३. १३०. ] बाहुलकाच्च समासो20 'नाम नाम्ना' [३. १. १८.] इत्यनेन 'घृषोदरा' [३. २. १५५.] इति माङो ह्रस्वः, कु ईषत् तीरं कास्तीरं 'अल्पे' [३. २. १३६.] कादेशः। कारस्करोऽयं टप्रत्ययेऽचि वा किष्किन्धाशब्दोऽप्रत्यये । 'शीरीभूद्मूघृपाधाग्' २२१ (उणादि) इत्यादिना औरणादिके क्त वा चित्तम् । अपरत्र 'वादिभ्यः' [५. ३. ६२.] इति क्तौ, अन्ये तु प्रायणं प्राय इति कोऽर्थः ? परलोकगमनं भोजनत्यागो वा प्रायः। तस्य चित्तं प्रायचित्तं । गवां पदं25 गोष्पदं तस्य पुरणं 'वष्टिमाने' [ ५. ४.५७. ] इति णम् । गोष्पदमात्रमिति गोष्पद मानमस्य स्यात् 'द्विगोः संशये च' [ ७. १. १४४. ] इत्यऽधिकारे 'मात्रट्' [७. १. १५५.] इति मात्रट् । रूपान्तरनिवृत्यर्थमिति अगोपदमिति रूपस्येत्यर्थः । गृह्णातीति वा 'ज्वलादिदुनी' इति ग्राहः। मस्करीति रिणन्यारादेशे उभयत्रापि ह्रस्वः। प्राचोवच
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy