SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० २६-२६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५७ वर्षक्षरवराप्सर शरोरोमनसो जे ॥ ३. २. २६ ॥ वर्ष, क्षर, वर, अप्, सरस्, शर, उरस्, मनस् इत्येतेभ्यः परस्याः सप्तम्या जे उत्तरपदे वालुप् भवति वर्षेजः, वर्षजः, क्षरेजः, क्षरजः, वरेजः, वरजः, अप्सुजम्, अब्जम्, सरसिजम्, सरोजम्, शरेजः, शरजः, उरसिजः, उरोजः, मनसिजः, मनोजः ।। २६ ।। न्या० स०--वर्ष०। क्षरतीत्यचि क्षरे मेघे जातः क्षरजः। क्षरशब्देन जलं मेघश्च उच्यते ।। ३. २. २६ ।। धुपावड्वर्षाशरत्कालात् ॥ ३. २. २७ ॥ योगविभागाद्वेति निवृत्तम, दिवप्रभूतिभ्यः परस्याः सप्तम्या जे उत्तरपदे परे लुप् न भवति । दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः,10 कालेजः ।। २७ ।। अपो ययोनिमतिचरे ॥ ३. २. २८ ।। . अपशब्दात्परस्याः सप्तम्या यप्रत्यये योनिमतिचरेषु चोत्तरपदेषु लुब् न भवति । अप्सु भवः अप्सव्यः-दिगादित्वाद्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ।। २८ ।। मेन्सिद्धस्थे ॥ ३. २. २६ ॥ इन्प्रत्ययान्ते सिद्ध स्थ इत्येतयोश्चोत्तरपदयोः सप्तम्या अलुप् न भवति, भवत्येवेत्यर्थः। इन्-स्थण्डिले वर्तते स्थण्डिलवर्ती, एवं स्थण्डिलशायी, सांकाश्यसिद्धः, काम्पील्यसिद्धः, समस्थः, विषमस्थः, 'शयवासी' [३. २. २५.] त्यादियोगद्वयविकल्पो 'धुप्रावृट्'-[ ३. २. २७. ] आदियोगद्वयविधिरनेन20 प्रतिषेधश्च, 'तत्पुरुषे कृति' [३. २. २०.] इत्यस्यैव प्रपञ्चः । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति ।। २६ ।। न्या० स०-नेन्सिद्ध०। इन्प्रत्ययान्ते इति । इहोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविध्यभावे ज्ञापितेऽपि सामर्थ्यात्तदन्तविधिः। इन्प्रत्ययो हि द्विविधः कृत्तद्धितश्च, 15
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy