SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५५२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १५-१८.] मनसश्चाज्ञायिनि ॥३. २. १५ ॥ मनःशब्दादात्मशब्दाच्च परस्य टावचनस्याज्ञायिन्युत्तरपदे परे लुप् न भवति। मनसाज्ञातुं शोलमस्य मनसाज्ञायी, एवमात्मनाज्ञायी । प्रात्मनो नेच्छन्त्येके ।। १५ ।। न्या० स०--मनसश्चा० । नन्विदं सूत्रमलुब्विधायकं न कर्त्तव्यं, यतो लुकि 5 कृतेऽपि सर्वाणि रूपाणि भविष्यन्ति ? उच्यते, यदि लुप् विधीयते तदा पदान्तत्वान्नलोपो रुत्वं विसर्गादिकं च कार्यं स्यादिति सूत्रम् ।। ३. २. १५ ।। नाम्नि ॥ ३. २. १६ ॥ मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि संज्ञायां विषये लुप् न भवति। मनसादेवी, मनसागुप्ता, मनसादत्ता, मनसासंगता,-एवं नामा10 काचित् । नाम्नीति किम् ? मनोदत्ता कन्या ॥ १६ ॥ न्या० स०-नाम्नि। मनसा दीव्यादित्याशास्यमाना लिहादित्वात् 'तिककृती नाम्नि' [ ५. १. ७१. ] इत्यच्, गौरादित्वात् ङ्यां 'कारकं कृता' [ ३. १. ६८. ] इति सः ।। ३. २. १६ ।। परात्मभ्यां हो ॥ ३. २. १७ ॥ परात्मशब्दाभ्यां परस्य उश्चतुर्थ्यकवचनस्योत्तरपदे परे नाम्नि विषये लुप् न भवति । परस्मैपदम्, परस्मैभाषा, आत्मनेपदम्, प्रात्मनेभाषा,'तादर्थ्य' [२. २. ५४.] चतुर्थी, हितादित्वात् समासः । नाम्नीत्येव ? परहितम्, आत्महितम् । कथं परहितो नाम कश्चित् ? नेयमनादिसंज्ञा ।। १७ ।। अव्यञ्जनात्सप्तम्या बहुलम् ॥ ३. २. १८ ॥ 20 अकारान्ताद्वयञ्जनान्ताच्च परस्याः सप्तम्या बहुलं लप् न भवति, नाम्नि विषये। अदन्तः-अरण्येतिलकाः, अरण्येमाषकाः, वनेकशेरुकाः, वनेबल्वजाः, वनेकिंशुलकाः, वनेहरिद्रकाः, कूपेपिशाचिकाः, पूर्वाह णस्फोटकाः, मध्याह्नस्फोटकाः, व्यञ्जन-युधिष्ठिरः-बहुलवचनात्क्वचिद्विकल्पः-त्वचिसारः, त्वक्सारः, क्वचिद्भवति-जलकुक्कुटः, ग्रामसूकरः। अद्व्यञ्जनादिति25 13
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy