________________
५५० ]
बृहद्वृत्ति-लघुग्याससंवलिते
[पा० २. सू० ११-१२.]
न्या० स०-असत्वे०। स्तोकान्मुक्त इत्यादौ 'स्तोकाल्पकृच्छ' [ २. २. ७६. ] इति पञ्चमी। अन्तिकादागत इत्यादौ तु 'असत्त्वारादर्थ' [ २. २. १२०. ] इति पञ्चमी भवति इत्यादि स्वयमूह्यम् ।। ३. २. १० ।।
ब्राह्मणाच्छंसी ॥ ३. २. ११ ॥
ब्राह्मणाच्छंसीत्यत्र उसेढुंबभावो निपात्यते । ब्राह्मणांद्ग्रन्थादादाय 5 शंसति ब्राह्मणाच्छंसी, ब्राह्मणाच्छंसिनौ, ब्राह्मणाच्छंसिनः,रूढिवशादृत्विग्विशेष उच्यते । उपात्तविषयमेव तदपादानं यथा-कुसूलात्पचति । निपातनस्येष्टविषयत्वादृत्विग्विशेषादन्यत्र लुप् भवति-ब्राह्मणशंसिनी स्त्री ।। ११ ।।
न्या० स०--ब्राह्मणा०। ब्राह्मणाद्ग्रन्थात् इति ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं 10 तेन प्रोक्तऽण । 'अरिण' [७.४. ५२.] इति निषेधेऽपि 'ब्रह्मणः' [७.४.५७ इत्यनेन ब्राह्ममस्त्रमितिवदत्रान्त्यस्वरादिलोपो न भवति । 'वेदेन्ब्राह्मणमत्रैव' [६. २. १३०.] इति निर्देशात्, अत एव निर्देशाद् वा । ब्राह्मणः श्रुताविति नपुंसकत्वं, ब्राह्मणाद्ग्रन्थादादाय शंसतीत्येवं ब्रह्म शंस् इति वाक्ये 'व्रताभीक्ष्ण्ये' [ ५. १. १५७. ] इति णिन् प्रत्ययः। उपात्तविषयेति अत्र हि आदानाङ्ग शंसने शंसिर्वर्त्तते इत्यादान-15 क्रियापेक्षमपादानमित्यादिः ।। ३. २.११ ।।
ओजो जासहोम्भस्तमस्तपसष्टः ॥ ३. २. १२ ॥
एभ्यः परस्य टस्तृतीयैकवचनस्योत्तरपदे परे लुब् न भवति । प्रोजसाकृतम्, अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्, तपसाप्राप्तम् । कथं 'सततनैशतमोवृतमन्यत इति ? उत्तरपदस्य20 संबन्धिशब्दत्वाद्यत्र पूर्वपदीभूतस्तमः शब्दस्तत्रायं निषेधः । यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः । ट इति किम् ? प्रोजसो भावः ओजोभावः । तमसो नेच्छन्त्येके । तपसोऽन्ये ।। १२ ।।
न्या० स०-प्रोजोऽञ्जः०। प्रोजसाकृतमिति ओजसा क्रियते स्म, एषु सर्वेषु कर्तरि षष्ठी न भवति । 'क्तयोरसदाधारे' [२. २. ६१. ] इति निषेधात्, तृतीया तु25 कर्तरि करणे वा, सर्वत्र 'कारकं कृता' [ ३. १. ६८. ] इति समासः ।