________________
५४८ ]
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० २. सू० ८-६.]
ऐकाटय ॥ ३. २. ८ ॥
ऐकार्यम् ऐकपद्यं तन्निमित्तस्य स्यादेर्लुप् भवति । चित्रा गावो यस्य चित्रगुः, राजपुरुषः, पुत्रमिच्छति पुत्रीयति, पुत्रकाम्यति, कुम्भं करोति कुम्भकारः, उपगोरपत्यमौपगवः, एषु चित्र अस् गो अस्, राजन् अस् पुरुष स्, पुत्र अम् य, पुत्र अम् काम्य, कुम्भ अस् कार, उपगु अम् अ इति स्थिते । ऐकायें सति तन्निमित्तस्य स्यादेर्लुप् । अत एव च लुप्विधानात् 'नाम नाम्ना'-[३. १. १८.] इत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते । ऐकायें इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न भवति । चित्रगुः । ऐकार्थ्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये न भवति ।। ८ ।।
न्या० स०--ऐकायें। ऐकार्थ्यमैकपद्यमित्युक्त ततश्चैकार्थ्यमित्युक्त ऐकपद्यं10 कथं लभ्यते, यत ऐकार्थ्यमित्युक्त एकार्थता एवं प्राप्नोति पर्यायः ? उच्यते, ऐकार्थ्यहेतुत्वादकपद्यमपि ऐकार्थ्यं । अथवा ऐकागेमस्यास्तीति ऐकार्थ्यमैकपद्यमभिधीयते, यत्र परित्यक्तस्वार्थान्युपसर्जनीभूतस्वार्थानि वा निरर्थकानि अर्थान्तरसंक्रमाद् द्वयर्थानि भवन्ति तदैकार्थ्यं तच्च ऐकपद्यमेव । अर्थान्तराभिधायित्वात् घटपटादिवत् पदान्तरमेवेति । न ह्यसावर्थः पूर्वपदेनोत्तरपदेन वाऽभिधीयते । प्रक्रियार्थं तु पृथक् पदानि दर्श्यन्ते, अत एव15 तदर्थस्य निवृत्तत्वाद् विभक्त रपि स्वयमेव निवृत्तेलु पशास्त्रमऽनुवादकमभिधीयते। ऐकपद्यमिति नन्वैकार्थ्यं निमित्तं कारणं कथमभिधीयते यतः कार्यमिति वक्तव्यम् ? उच्यते, कार्ये कारणोपचारादिति प्रज्ञाकरगुप्तः। कार्यमपि कारणमभिधीयते यथा देवदत्तो गच्छति भोजनार्थं । अत्र भोजनं कार्यमपि कारणमस्ति यथा एवमत्रापि कार्य कारणमभिधीयते, ऐकपद्ययोग्यत्वात् ऐकार्यमत्रास्तीति 'अभ्रादिभ्यः' [ ७. २. ४६.] इति वा ।20
अत एव चेति ननु नाम्नः समासविधानाद् विभक्तिरहितस्य च नामत्वात् समासे विभक्त्यभावादेव विभक्तिनिवृत्तेः सिद्धत्वात् पुत्रीयत्यौपगव इत्यादिसिद्ध्यर्थं प्रत्यय इत्येव कार्यम् ? नैष दोषः, अत एव लुम्विधानात् समासेऽपि विभक्त : संभव इति । निमित्तसप्तमी विज्ञानादिति ऐकार्थ्यस्य च पूर्वकालवाचिन्येव विभक्तिनिमित्तं तस्यामैकार्थ्यस्य भावादुत्तरकालभाविन्यास्तु विभक्त रैकार्थ्यमेव निमित्तं सत्यैकपद्ये तस्या:25 संभवादिति ॥ ३. २.८ ।।
न नाम्येकस्वरात् खित्युत्तरपदेशमः ॥ ३. २. ९ ॥
समासारम्भकापत्यं पदमुत्तरपदम् । नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामः