________________
५२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १३६.]
वमी ततो मत्वर्थीये इनि 'तेन प्रोक्त' [६. ३. १८१.] इत्याद्यविधिः। मौदपैष्पलादमिति मुदस्य मोदस्य वा पिष्पलादस्य चापत्यं 'ऋषिवृष्ण्यण' [ ६. १. ६१. ] मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्य बाधको 'मौदादिभ्यः' [६. ३. १८२.] इत्यण 'तवेत्त्यधीते' [६. २. ११७.] इत्यरण तस्य 'प्रोक्तात्' [ ६. २. १२६. ] इति लुप् । ताकिकेति तर्केण चरति तर्कः प्रयोजनमस्येति वा 'चरति [६.४.११.] 'प्रयोजनम्' 5 [६.४.११७.] इति वा इकरिण, यद्वा तकं वेत्त्यधीते वा 'न्यायादेरिकरण' [६.२.११८.] परं तदा न्यायादिष्वपठितोऽपि दृश्यः ।। ३. १. १३८ ।।
अक्लीबेवयुक्रतोः ॥ ३. १. १३६ ॥
अध्वर्यवो यजुर्वेदविदः, तेषां वेदोऽप्यध्वर्युः, तत्र विहिताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः, ससोमको यागः क्रतुः, अध्वर्युक्रतुवाचिनां शब्दानां 10 स्वैर्द्वन्द्व एक एकार्थो भवति, अक्लीबे क्लीबे चेदध्वर्युक्रतुवाची शब्दो न भवति । अर्कश्चाश्वमेधश्चार्काश्वमेधम्, साह्नातिरात्रम्, पौण्डरीकातिरात्रम्, अर्कादयः पुंलिङ्गाः । अक्लीबग्रहणं किम् ? गवामयनादित्यानामयने । प्रसज्यप्रतिषेधः किम् ? राजसूयं च वाजपेयं च राजसूयवाजपेये, इमौ ऋतू पुंलिङ्गावपि स्त इति पर्युदासाश्रयणेऽत्रापि स्यात् । अध्वर्युग्रहणं किम् ? इषुवज्रौ,15 उद्भिद्विलभिदौ, इष्वादयः सामवेदे विहिताः। क्रतुग्रहणं किम् ? दर्शपौर्णमासौ ।। १३६ ।।
न्या० स०--अक्लीबे०। साह्रातिरात्रमिति सह अह्ना वर्तते पृषोदरादित्वात् महादेशे 'नाम्नि' [३.२.१४४.] इति नित्यं सादेशः । यदवा अह्नां समूहः 'अश्वादिभ्योऽञ्' ( ) अनीनाद्यह्नोऽनोऽस्य लुप् । सहाह्नन भवति ते साह्नश्वातिरात्रश्च ।20 पुण्डरीको देवताऽस्य 'देवता' [ ६. २. १०१. ] इत्यण । गवामयनादित्यानामयने इति आमीनातीति अच्, अमरण 'कुगुवलि' ३६५ (उणादि) इत्ययो वा। अामयं करोति 'रिणज्बहुलं' [ ३. ४. ४२. ] अामय्यन्ते सरोगीक्रियन्तेऽनेनानटि । ततो गवामामयनं गवामयनम् । अयनशब्दे वा उत्तरपदे बाहुलकात् षष्ठ्या अलुप् । तथा अदितेरपत्यानि आदित्या देवाः न पामयनं शेषं पूर्ववत् । प्रसज्यप्रतिषेधः किमिति क्लोबे चेदध्वर्युक्रतु-25 वाची न भवतीति यः प्रसज्यप्रतिषेधो वृत्तौ दर्शित: स किमर्थः। प्रसज्यो हि नञ् क्रियया संबध्यते, इतरस्तु नाम्ना। राज्ञा सोतव्यो राजा वाऽत्र सूयते इति 'संचाय्यकुण्डपाय्य' [५. ४. २२.] इति निपातः। वज्यत इति वाजः । कर्मणि पत्र, क्त सेट्त्वाद् गत्वाभावः पातव्यः पेयो वाजो यस्य ।