SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १३३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५२१ न्या० स०--पशुव्यञ्ज०। अत्रावयवावयविसंबन्धे षष्ठी, तेन पश्ववयवो व्यञ्जनावयवश्च द्वद्व इत्यर्थः । अत्र पशवो ग्राम्या गवादयो ग्राह्या न त्वारण्या: कुरङ्गादयः । उत्तरत्र मृगग्रहणात्। व्यञ्जनमिति व्यञ्जनं येनान्न रुचिमापद्यते तद्दधिघृतशाकसूपादि। स्वैरिति अत्रापि पशुत्वेन व्यञ्जनत्वेन च स्वत्वम् । वृष्णिस्तभमित्यत्र स्तभेः सौत्रादचि स्तभोऽजः, पशुव्यञ्जनानामिति बहुवचनात् बहूनां 5 पशुद्ध द्वे सेनाङ्गानां यदेकत्वं नित्यं तदनेन बाध्यते । तेन हस्त्यश्वं हस्त्यश्वा भवतीति न्यासः ।। ३.१.१३२॥ तरुतूणधान्यमूगपक्षिणां बहूत्वे ॥३. १. १३३ ॥ एतेषां बहुत्वे वर्तमानानां प्रत्येकं स्वैर्द्वन्द्व एक एकार्थो वा भवति । तरु, प्लक्षाश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, एवं धवाश्वकर्णम्10 धवाश्वकर्णाः, तृण-कुशकाशम्, कुशकाशाः, मुजवल्वजम्, मुजवल्वजाः, धान्य-तिलमाष, तिलमाषाः, व्रीहियवम् व्रीहियवाः, मृग-रुरुपृषतम्, रुरुपृषताः, ऋश्यणम्, ऋश्यैणाः, पक्षिन्-हंसचक्रवाकम्, हंसचक्रवाकाः, तित्तिरिकपिञ्जलम्, तित्तिरिकपिजलाः । एकस्यापि पदस्य बहुत्वे भवति-प्लक्षश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः, प्लक्षौ च न्यग्रोधाश्च प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधा15 इत्यादि । बहुत्व इति किम् ? प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ, प्लक्षौ च न्यग्रोधौ च, प्लक्षश्च न्यग्रोधौ चेति वा प्लक्षन्यग्रोधाः । स्वरित्येव ? प्लक्षयवाः, गोपृषताः आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे मृगाणामिहोपादानम् अमृगैरबहुत्वे चैकत्वाभावार्थम् ।। १३३ ।। न्या० स०--तरुतृण। तरुरिति सामान्येनोक्तऽपि तरुविशेषा गृह्यन्ते । तेन तरवश्च वृक्षाश्चेति धवाश्च वृक्षाश्चेति वा कृते इतरेतरयोग एव। प्लक्षाश्चेत्यादि ननु वृत्तौ वत्तिपदार्थानामभेदैकत्वसंख्याया एव भावात् कथमत्र बहुत्वम् ? नैवं, यत्र संख्या भेदप्रतिपत्ती निबन्धनमस्ति तत्र वत्तिपदान्यपि तमेव संख्याभेदमुपाददते। बहुत्वपरिग्रहे चाऽत्र एकवद्धावो निबन्धनं तत्रैव तस्य भावादित्यदोषः । हंसचक्रवाकमित्यत्र चक्र-2: वाकमित्यत्र चक्र इति वाक पाख्या यस्य । अथवा वचनं वाकश्चक्रस्येव वाको येषां ते चक्रवाकाः। प्लक्षौ च न्यग्रोषौ चेति तरुतृणादीनां द्वद्वावयवानामेव बहुत्व इति विशेषणात् द्वंद्वस्य बहुत्वेऽपि न समाहारः। अमृगैरबहुत्वे चेति यदा ग्राम्यपशूनामरण्यपशुभिः सहोक्तिर्भवति तदा माभूदित्यर्थः ।। ३. १. १३३ ।। 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy