SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १३०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१६ 5 द्वयर्थः सन्ने क-एकार्थो भवति । उदितौ पुष्यपुनर्वसू, अर्थग्रहणं पर्यायार्थम्तिष्यपुनर्वसू, सिध्यपुनर्वसू, समाहारे तु पुष्यपुनर्वसु । पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् ? पुष्यमघा: भ इति किम् ? पुष्यपुनर्वसवो माणवकाः । सहोक्तावित्येव । पुष्यः पुनर्वसू येषां ते पुष्यपुनर्वसवो मुग्धाः ।। १२६ ।। न्या० स०-पुष्यार्था० । एकशेषो निवृत्त इति भिन्नसूत्रकरणात् इत्यर्थः । अन्यथा क्लीबमन्येनैकं च वा पुष्यार्थाढ़े पुनर्वसुश्च नित्यमित्येकमेव योगं कुर्यात् । मे नक्षत्रे वर्तमानादिति एकस्याप्यावृत्त्या उभयस्यापि विशेषणत्वम् । समाहारे स्विति समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति । पुष्यपुनर्वसवो मारणवका इति । पुष्येण चन्द्रयुक्त न युक्तः कालः 'चन्द्रयुक्तात् काले' [६. २. ६.] इत्यण् एवं पुनर्वसुशब्दादपि,10 ततो 'लुप्त्वप्रयुक्त' ( ) इति लुप्, एवं कालवृत्तिभ्यां पुष्ये जातः पुनर्वस्वोर्जाताविति 'भर्तु संध्यादेः' [६. ३. ८६.] इत्यण् 'बहुलानुराधा' [६. ३. १०७.] इति तस्य लोपः । तत: पुष्यश्च पुनर्वसू चेति द्वंद्वः । पुष्यपुनर्वसवो मुग्धा इति । मुग्धा इति मुह्यन्ति जना एष्विति 'अद्यर्थाच्चाधारे' [५. १. १२. ] इति क्त साध्यः । ततो येषां पुष्यपुनर्वस्वादीनां मुग्धानां कोऽर्थः ? मोहोत्पादकानां मध्ये पुष्यः पुनर्वसू ज्ञायते लोकस्ते 15 पुष्यपुनर्वसवः मुग्धा इति । कर्तरि क्त तु विपर्यासप्रतिपत्तारः पुरुषाः उच्यन्ते । ततः पुनर्वस्वर्थस्यैकत्वेऽपि अन्यपदार्थतया पुरुषबहुत्वे सति बहुवचनमुपपद्यत एव । अत्रावयवेन विग्रहः समुदायः समासार्थः । ततः पुष्य इत्येकोऽवयवः पुनर्वसू इति द्वितीयः । येषामिति समुदायः समासार्थः ।। ३.१. १२६ ।। विरोधिनामद्रव्याण नवा द्वन्द्वः रवै ॥३. १. १३० ।।20 द्रव्यं गुणाद्याश्रयः,। विरोधिवाचिनां शब्दानां द्रव्यमप्रतिपादयतां द्वद्वो वा एक-एकार्थो भवति, स चेत् द्वद्वः स्वैः सजातीयैरेवारभ्यते । सुखदुःखम्, सुखदुःखे, शीतोष्णम्, शीतोष्णे, जननमरणम्, जननमरणे, लाभालाभम्, लाभालाभौ, संयोगविभागम्, संयोगविभागौ विरोधिनामिति किम् ? रूपरसगन्धस्पर्शाः, कामक्रोधौ, अद्रव्याणामिति किम् ? सुखदुःखाविमौ25 ग्रामौ, शीतोष्णे उदके। स्वैरिति किम् ? बुद्धिसुखदुःखानि । समाहारे चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वाद्विकल्पे सिद्धे सर्वमिदं विकल्पानुक्रमणं नियमार्थम्-विरोधिनामेवाद्रव्याणामेव स्वैरेवेति, तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ।। १३० ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy