SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १२१-१२२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१३ द्वद्वलिङ्गनेव द्रष्टव्या । द्वद्वाभावे तु सहोक्तौ तौ कुक्कुटो मयूरीति चार्थे गम्ये तौ कुक्कुटो मयूरो चेत्येकचयोगे तो कुक्कुटश्च मयूरी चेति चकारद्वययोगे च भवति, स्त्रीपुनपुसकानामिति वचनात् । अंशीति तच्चाद्धं पिप्पल्या इति अर्द्धकथनम् । तत् पिप्पल्यर्द्ध सा च अर्द्धपिप्पलीत्यपि कृते 'समानामर्थे' [ ३.१.११८.] इति सूत्रेणांशिसमासवाचिनः शेषे तस्य च परलिङ्गत्वात् तविशेषणानामपि तल्लिङ्गतैव । षष्ठीतत्पुरुषवाचितत्पददेशे तु उत्तर-5 पदप्राधान्यान्नपुसकत्वं ततः तद विशेषणानामपि तथैव भवति । परं ते इति क्लीबे स्त्रियां च न विशिष्यते दिगम्बरसमाधिवत् । ततश्च स्वाव्यौ अर्धपिप्पल्यौ स्वादुनी पिप्पल्यः इति युक्त उदाहरणे । पिप्पल्यर्द्धस्य अर्द्धपिप्पल्याश्च शेषत्वाभावे तद्विशेषणानामेकशेषे तु नपुसकलिङ्गतैव स्त्रीनपुसकानां सहेति भणनात् ।। ३. १. १२० ।। धातुपुत्राः स्वसद्धाहतुभिः ॥ ३. १. १२१ ॥ बहुवचनं पर्यायार्थम् स्वस्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दो दुहित्रर्थेन सहोक्तौ पुत्रार्थ एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ, सोदर्यश्च स्वसा च सोदयौं, भ्राता च भगिनी च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ, सुतश्च दुहिता च सुतौ, पुत्रश्च सुता च पुत्रौ ।। १२१ ।। न्या० स०--भ्रातृपुत्राः० । बहुवचन मिति ननु भातृपुत्रयोः स्वसृदुहितोश्च द्वयर्थ-15 स्वात् द्विवचनेन भाव्यं किमर्थं बहुवचनम् ? इत्याशङ्का, बहुवचनाऽभावे हि 'पिता मात्रा' [ ३. १. १२२. ] इतिवद् उच्चारितरूपस्य परिग्रहः स्यान्न तदर्थशब्दान्तराणाम् । बहुवचने तु द्वयोर्बहुत्वायोगात् भ्रातरश्च पुत्राश्चेति तदर्थप्रतिपत्तौ तदर्थशब्दा निद्दिश्यन्त इति । भ्रातरावित्यत्र स्त्रीपुनपुसकानां सहवचने स्यात् परमिति पुंलिङ्गमेव भवति । भ्रातरौ शोभनाविति, एवं च भ्राता च भ्राता च भ्रातरौ, भ्राता च स्वसा च भ्रातरा-20 वित्युभयप्रतिपत्तावपि प्रकरणादिना विशेषावगतिः। सोदयेत्यत्र समानोदरे जातो निपातनात् समानस्य सभावो यश्च प्रत्ययः ।। ३१.१२१ ।। पिता मात्रा वा ॥३. १. १२२ ॥ मातृशब्देन सहोक्तौ पितृशब्द एक: शिष्यते वा। पिता च माता च पितरौ, पक्षे-मातापितरौ । मातुरच॑त्वात्पूर्वनिपातः ।। १२२ ।। 25 न्या० स०--पिता मात्राः । पितृशब्दसाहचर्यात् संबन्धिशब्दत्वाज्जनयित्र्या एव मातुः परिग्रहो न धान्यमातुरिति ।। ३. १. १२२ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy