SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ११७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५०७ कारकाणामेकस्मिन् द्रव्येऽनेककारकाणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धर्मिण्यनेकधर्माणां ढौकनं समुच्चय इति, यथा चैत्र: पचति च पठति चेत्यादिषु यथाक्रम दर्शयति । एकमर्थं प्रति द्वयादीनामात्मरूपभेदेन चीयमानता समुन मन्यस्तस्यैव प्रपञ्चः । तथा अविरोधिनामिति यथा शीतोष्णादि विरुद्धं तथा न विरुद्धा भवन्ति, यथा बाल्ययौवनादीनां नियतः क्रमः यथा च शब्दरूपरसगन्धस्पर्शानां नियतं 5 योगपद्यं, तथा येषां नियते क्रमयोगपद्येन भवतस्तेषामित्यर्थः । आत्मरूपभेदेनेति तनुप्रवृत्तिनिमित्तेनेलि, अन्वाचयोऽप्येवंविध एव । इयता तु भिद्यते यत् समुच्चये समुच्चीयमानाः क्रियाकारकादिविशेषाः सर्वे तुल्यकक्षाः, अन्वाचये तु एकस्य गुरगभावोऽन्यस्य प्रधानभावः । तद्यथा 'रुधां स्वराच्छ्नो न् लुक च' [३. ४. ८२.] इति, अत्र हि विधीयमानं श्नं न लोपोऽपेक्षते यत्र श्नस्तत्र न लोपो यथा10 'भंजोंप आमदने' भनक्ति । श्नस्तु न लोपं नापेक्षते तदभावेऽपि प्रवृत्तेर्यथा युनक्तीति । द्रव्यारणामेव परस्परेत्यत्र इतरेतरयोगः परस्परापेक्षाणां क्रियां प्रति द्रव्याणां ढोकनं, समाहारोऽपि तथैव । एतावांस्तु भेद उद्भतावयवभेदा हि संहतिरितरेतरयोगः । अत एव द्वयात्मकत्वे तस्यावयवार्थगते द्वित्वे द्विवचनं चैत्रमैत्राविति । बह्वात्मकत्वे तु बहुत्वे बहुवचनं चैत्रमैत्रदत्ता इति । न्यग्भूतावयवभेदा तु संहतिः समाहारोऽतस्तस्या एक-15 त्वादेकवचनमेव न त्ववयवगतसमाश्रयणेन द्विवचनबहवचने, अवयवानामत्यन्तमनमीय मानस्वरूपत्वात्, न हि यथेतरेतरयोगे उद्भूतस्वरूपोपदर्शनपूर्वकं समुदायमवयवार्था उपकुर्वन्ति तद्वत् समाहारे । - धवश्च खदिरश्च पलाशश्च तिष्ठतीत्यत्र 'तरुतृणधान्यमृग' [३. १. १३३.] इति समाहारो भवति । एतावता चादीनां द्योतकानां व्युदासः । एषु चाद्ययोः सहोक्त्य-20 भावादिति ननु समुच्चयान्वाचययोः सामर्थ्याभावादेव समासो न भविष्यति कि सहोक्तिग्रहणेन । तथाहि परस्परानपेक्षाणामनियतक्रमयोगपद्यानां क्रियाकारकादीनां समुच्चयो दृष्यते । यथा गामश्वमित्यत्र नयनक्रियायां गवादीनां, अन्वाचयेऽपि गौरणस्य प्रधानं प्रत्यपेक्षा न प्रधानस्य गौणं प्रतीत्यत्र सामर्थ्याभावः? नैष दोषः। यतः कारकारिण क्रिययोपश्लिष्यन्ते, न परस्परेण क्रिया चौपश्लेषिका समुच्चयान्वाचययोरपि संभवति25 तत्कथं समुच्चयेऽन्वाचये चासमर्थानि नामानि स्युः परस्परापेक्षा त्वविद्यमानापि न सामर्थ्यस्य विघातिका। सा हिन श्रौती किंत वाक्यप्रकरणादिसमधिगम्या। तत्कथं श्रौतस्य सामर्थ्यस्य संभवे विपरीतस्य सामर्थ्यस्यासंभवः समासाप्रवृत्तौ निमित्तमिति सहोक्तिग्रहणमिति । यत्तिपदरित्यादि अयमर्थः युगपत् द्वद्ववाच्यं समुदायरूपं यदोच्यते तदा द्वद्वो भवति । गामश्वमित्यादौ तु परस्परं निरपेक्षाः स्वतन्त्रा गवादयो भिन्न रेव शब्दै:30 पृथक् प्रत्याय्यन्त इति । युगपद्वाचित्वाभावात् द्वंद्वाभाव इति । यद्येवं पट्वीमृद्वयौ इत्यत्र एकैकेन शब्देनार्थद्वयस्याभिधानात्ससामानाधिकरण्यात्पुवद्भावप्रसङ्गः । अत्रोच्यते । अथेह दर्शनीयाया माता दर्शनीयाशब्दस्य वृत्तावेकार्थीभावान्मात्रर्थवृत्तित्वात् सामानाधिकरण्यसद्भावात्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy