SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ४६६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ११०-१११.] गोत्रं, ततो गोत्रं च चरणैः सहेति जातिः। कुण्डलीति ज्योत्स्नाद्यणप्राप्तौ 'शिखादिम्य इन्' [७. २. ४.] ।। ३. १. १०६ ।। कि क्षेपे ॥३. १. ११० ॥ क्षेपो निन्दा, तस्मिन् गम्यमाने किमित्येतनामैकार्थमर्थात्क्षिप्यमारणवाचिनाम्ना सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । 5 को राजा किंराजा यो न रक्षति, एवं किंगौर्यो न वहति, किंसखा योऽभिद्र ह्यति, स किंवैयाकरणो यः शब्दं न ब्रूते, सर्वत्र तत्कार्याकरणात् क्षेपो गम्यते, तथा कुत्सितो नरोश्वमुखत्वात् किंनरः, एवं किंपुरुषः, कुत्सितः शुकः किंचिन्नीलत्वात्किशुकः पलाशः, एवं किजल्कः, किंकिरातमित्यादि'न किमः क्षेपे' [७. ३. ७०.] इति समासान्तप्रतिषेधः। क्षेपे इति किम् ? 10 को राजा मथुरायाम् । 'विशेषणं विशेष्येण'-[३. १. ६६.] इत्येव सिद्धे क्षेपे एवेति नियमार्थं वचनम् ।। ११० ।। न्या० स०-कि क्षेपे। जल्कश्चूर्णः-किरातं । काञ्चनारवृक्षस्य पुष्पमित्यर्थः ।। ३. १. ११०॥ पोटायुवतिस्तोककतिपयगुष्टिधेनुवशावेहबष्कयणी-15 . प्रवक्तुश्रोत्रियाध्यायकधूर्तप्रशंसासदैर्जा तिः ॥ ३. १. १११ ॥ जातिवाचि नामैकार्थं पोटादिभिर्नामभिः प्रशंसारूढश्च सह समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । इभ्या च सा पोटा च इभ्यपोटा, आर्यपोटा, पुरुषवेषवारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा उभयव्यञ्जना वा भुजिष्यदासी वा, इभ्या चासौ युवतिश्च इभ्ययुवतिः,20 नागयुवतिः, वृन्दारकयुवतिः, अग्निश्चासौ स्तोकं च अग्निस्तोकम्, विषस्तोकम्, दधि च तत् कतिपयं च दधिकतिपयम्, तक्रकतिपयम्, गौश्चासौ गृष्टिश्चेति गोगृष्टिः, अजगृष्टिः, गृष्टिः सकृत्प्रसूता, गोश्चासौ धेनुश्च गोधेनुः, अजधेनुः, धेनुर्नवप्रसूता, गोवशा, अजवशा, वशा वन्ध्या, गोवेहत्, अजवेहत्, वेहद्गर्भघातिनी, गोबष्कयणी अजबष्कयिणी,-बष्कयेण वृद्धवत्सेन या दुह्यते सा25 बष्कयिणी, कठप्रवक्ता कालापप्रवक्ता, प्रवक्ता उपाध्यायः, कठश्रोत्रियः,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy