SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ४६२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १०४.] च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । अश्रेणयः श्रेणयः कृताःश्रेणिकृताः पुरुषाः, अनूका ऊकाः कृता ऊककृताः,-राशिस्थानीकृता इत्यर्थः, एवं पूगकृताः, श्रेणिमताः, श्रेणिमिताः, श्रेणिभूताः । व्यर्थे इति किम् ? श्रेणयः कृताः, किंचित् निगृहीता अनुगृहीता वेत्यर्थः-च्व्यन्तानां च्व्यर्थस्य विनैवोक्तत्वान्नानेन समासः, च्च्यर्थे हि समासेनाभिधेयेऽयं समासो भवति, 5 गत्यादिसूत्रेण तु नित्यसमासो भवत्येव, श्रेणीकृताः, ऊकीकृताः, श्रेरिण, ऊक, पूग, कुन्दुम, कन्दुम, राशि, निचय, विशिष्ट, निधन, कृपण, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यायक, अध्यापक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुरण-इति श्रेण्यादिः। कृत, मत, मित भूत, उप्त, उक्त, समाज्ञात, समाख्यात, समाम्नात, संभावित, अवधारित, अवकल्पित, निराकृत,10 उपकृत, अपकृत, कलित, उदाहृत, उदीरित, उदित, दृष्ट, विश्रुत, विहित, निरूपित, आसीन, आस्थित, अवबद्ध इति कृतादयः । बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्यं नास्ति तत्रेतिशब्दाध्याहारो द्रष्टव्यः-अनिर्धना निर्धना इत्युपकृता, अचपलाश्चपला-इत्यपाकृता, अभूता भूता इति निराकृताः। श्रेणिकृता इत्यादौ क्रियाकारकसंबन्धमात्रं न विशेषण 15 विशेष्यभाव इति वचनम् ।। १०४ ।। न्या० स०--श्रेण्यादि०। एकशिल्पपण्यजीविनां संघः श्रेरिणः । व्यर्थः प्रागतत्तत्त्वलक्षणः स चेत् सस्य भवति न विप्रत्ययः। व्यर्थे गम्यमाने इति । यद्यप्यूत्तरपदार्थप्रधानोऽयं समासस्तथाप्युपसर्जनतया व्यर्थोऽपि प्रतीयते। उपसर्जनमपि ह्यों भवति । ऊकेति अवतेः 'विचिपुषि' २२ (उणादि) इति कित् कः, कुकेः कुन्दुमः । कन्दु स्वेदनिकां20 मिमीते कन्दुमः कान्दविकः । निचयः समूहः गन्धद्रव्यं च । ब्रह्म अणतीति कर्मणोऽणि पृषोदरादित्वात् अकारलोपे दीर्घवे च । यत्र सामर्थ्यमिति अथ चपलापाकृता इत्यादी चपलादीनां च्व्यर्थवृत्तीनामपाकृतादिभिः सामर्थ्याभावात् कथं समासः ? इत्याशङ्का श्रेरिणकृता इत्यादाविति नन्वत्रापि विशेष्यभावोऽस्ति, यतः कृताः के कर्मतापन्नाः श्रेणयः तन्न यतो न हि श्रेणयः एवंविधं विशेषणं किंतु अश्रेण्यः श्रेणय इति पश्चात् श्रेणय 25 इत्युक्त अश्रेणय इत्यपेक्षते इति श्रेणय इति न भवत्येव किन्तु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसंबन्ध एव । यतो यथा नीलोत्पलमिति नील एव विशेषणशब्दोऽस्ति, तथाऽत्र श्रेणय एवंविधो न यतो अश्रेणय इत्यपेक्षते इति ।।३.१.१०४ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy