________________
३६० ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ४. सू० ६३-६५.]
मतसंग्रहार्थम्, अन्तग्रहणाभावे तु प्रानपि भिन्नप्रत्ययः स्यात् । किञ्चान्तग्रहणभावे "अनेकवणः सर्वस्य" [ ७. ४. १०७. ] इति सर्वस्यादेशः स्यात् ।। २. ४. ६२ ।।
मातुलाचार्योपाध्यायाद् वा ।। २. ४. ६३ ॥
एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्सन्नियोगे चाऽऽनन्तो वा भवति । मातुलस्य भार्या-मातुलानी, मातुली ; एवम्-प्राचार्यानी, 5 क्षुभ्नादित्वाण्णत्वाभावः, प्राचार्या, आचार्टीति नेच्छन्त्यन्ये, उपाध्यायानी, उपाध्यायी; अन्ये तु-मातुला, प्राचार्या, उपाध्यायेत्यपीच्छन्ति, तदर्थं ङीरपि विकल्पनीयः ।। ६३ ।।
सूर्याद देवतायां वा ॥ २. ४. ६४ ॥
सूर्य शब्दाद् धवनाम्नस्तद्योगाद् देवतायां स्त्रियां वर्तमानाद् डी10 भवति, तत्संनियोगे प्रान् चान्तः। सूर्यस्य भार्या-सूर्याणी, पक्षे आबेव-सूर्या । देवतायामिति किम् ? सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी--सूरी। सूर्याणीति नेच्छन्त्यन्ये ।। ६४ ।।
___ न्या० स०--सूर्यादे० । सूर्यस्यादित्यस्येति-भगवतोऽपि हि सूर्यस्य वरप्रदानेन . मानुषी या भार्या या-सूरी, यथा-कुन्ती। सूर्याणीति नेच्छन्त्यन्ये इति-पूर्वे, सूर्याणी तु15 शकट एव ।। २. ४. ६४ ।।
यव-यवना-अरण्य-हिमाद् दोषलिप्युरुमहत्त्वे
॥२. ४. ६५॥ धवाद् योगादिति च निवृत्तम्, यवादिभ्यः शब्देभ्यो यथासंख्यं दोषादौ गम्यमाने स्त्रियां डीर्भवति, तत्संनियोगे आन् चान्तः । दोषे-दुष्टो यवो--20 यवानी, यवानां दोषकारि सहचरितं द्रव्यान्तरम्, अप्रसवधर्मा यव एवेत्यन्ये । लिपौ-यवनानामियं लिपिः--यवनानी, उक्तार्थत्वात् "तस्येदम्"[६. ३. १६०.] इत्यरण न भवति । उरुत्वे-उर्वरण्यम्-अरण्यानी। महत्त्वे-महद्धिम-हिमानी। लिपीति किम् ? यावनी वृत्तिः, यवनस्य भार्या-यवनी। यवा-ऽरण्यहिमानां तु दोषाद्यभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाह्रियते, संज्ञायां तु भवत्येव-25