SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ॥ग्रह ॥ ॥ अनन्तलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ ॥ श्रीमद् दान-प्रेम-रामचन्द्र भद्रङ्करसद्गुरुभ्यो नमः ॥ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीतं ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ ( स्वोपज्ञतत्त्वप्रकाशिकाभिधबृहदवत्ति-मनीषिकनकप्रभविरचित न्याससारसमुद्धार (लघुन्यास) संवलितम् ) [ तत्र प्रथमोऽध्यायः ] अथ स्वोपज्ञतत्त्वप्रकाशिकाभिधा बृहद्वृत्तिः-- प्रणम्य परमात्मानं श्रेयःशब्दानुशासनम् । प्राचार्यहेमचन्द्रेण स्मृत्वा किञ्चित् प्रकाश्यते ॥1010 अहं ॥ १. १. १ ॥ अहँइत्येतदक्षरम्,परमेश्वरस्य परमेष्ठिनो वाचकम्,सिद्धचक्रस्यादिबीजम्, सकलागमोपनिषदभूतम्, अशेषविघ्नविघातनिघ्नम्, अखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपमम्, प्राशास्त्राध्ययनाध्यापनावधि प्रणिधेयम् । प्रणिधानं चानेनाऽऽत्मनः सर्वतः संभेदस्तदभिधेयेन चाभेदः । वयमपि चैतच्छास्त्रारम्भे प्ररिण-15 दध्महे । अयमेव हि तात्त्विको नमस्कार इति ।। १ ।। अथ न्याससारसमुद्धारः - प्रणम्य केवलालोकावलोकितजगत्त्रयम्। जिनेशं श्रीसिद्धहेमचन्द्रशम्दानुशासने ॥१॥ शब्दविद्याविदां वन्द्योदयचन्द्रोपदेशतः । न्यासतः कतिचिद्दुर्गपदव्याख्याऽभिधीयते ॥२॥ प्रणम्येत्यादि-इह निःशेषशेमुषीसमुन्मेषनिमितानेकविद्वज्जनमनश्चमत्कारिशास्त्र-20 निकरविस्मापितविशदप्रद्धिमहद्धिकानेकसूरिः निष्प्रतिमप्रतिभासंभारापहस्तितत्रिदशसूरिः श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिखिलक्षोणिमण्डलाभयप्रदानप्रभृतिसंख्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसंचरिष्णुकृतचिरन्तनवैरस्वाम्यादिप्रवरसूरिः सुगृहीतनामधेयः
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy