SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३६० ] बृहवृत्ति-लघुन्याससंवलिते [पा० ४. सू० ६-१२.] समानार्थत्वादेकयोग एव क्रियताम् ? उच्यते-बहुव्रीहावप्यून इति तदन्तस्य विधिः, अशिशोरिति च स्वरूपस्येति योगविभागः ॥ २. ४.८ ।। संख्यादेर्हायनाद् वयसि ॥ २. ४. ६ ॥ संख्यादेहायनशब्दान्तान्नाम्नो बहुव्रीहेः स्त्रियां वयसि गम्यमाने ङीर्भवति। द्विहायनी, त्रिहायणी, चतुर्हायणी; अत्र “चतुस्त्रेयिनस्य वयसि” 5 [ २. ३. ७४. ] इति णत्वम् । संख्यादेरिति किम् ? अतीतहायना । हायनादिति किम् ? द्विवर्षा कन्या । वयसीति किम् ? द्विहायना, त्रिहायना, चतुर्हायना शाला, कालकृता प्राणिनां शरीरावस्था वय इति णत्वमपि न भवति । बहुव्रीहेरित्येव-शते हायनेषु संभूता जाता भवा वेति इकणि तल्लुपि च-शतहायना स्त्री ।। ६ ।।। न्या० स०--सङ्खयादे०। इकरिण तल्लुपि चेति-“वर्षाकालेभ्यः" [६. ३. ८०.] इत्यस्य, शकटाभिप्रायेणेदमुक्तम् । तन्त्रोद्योतस्तु शतहायनशब्दस्य कालवाचकत्वाभावे "तत्र कृत०" [ ६. ३. ६४. ] इत्यनेनाणेवेतीच्छति ॥ २. ४. ६ ।। 10 दाम्नः ॥ २. ४. १० ॥ संख्यादेमन्शब्दान्तानाम्नो बहुव्रीहेः स्त्रियां ङीर्भवति । द्विदाम्नी,15 त्रिदाम्नी । संख्यादेरित्येव-उद्दामानम्, उद्दामाम्, उद्दाम्नी वडवां पश्य, “अनो वा" [२. ४. ११.] इति विकल्पस्यापवादो योगः ।। १० ।। अनो वा ॥ २. ४. ११ ॥ अन्नन्ताद् बहुव्रीहेः स्त्रियां ङीष् भवति । उत्तरत्रोपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः । बहुराश्यौ, बहुराजे, बहुराजानौ; दीर्घाणि20 अहानि यस्यां दीर्घाह नी, दीर्घाहा, दीर्घाहाः शरत्; बहुतक्ष्ण्यौ, बहुतक्षे, बहुतक्षाणौ । बहुव्रीहेरित्येव-अतिराज्ञी, निस्तक्ष्णी ।। ११ ।। नाम्नि ॥ २. ४. १२ ॥ अन्नन्ताद् बहुव्रीहेः स्त्रियां-नाम्नि संज्ञायां नित्यं डीभवति । अधिराज्ञी,
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy