SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ८६-६०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः निर्विण्णः ॥। २. ३. ८६ ॥ निर्पूर्वाद् विदेः सत्ता- लाभ - विचारार्थात् परस्य क्तनकारस्य णत्वं निपात्यते । निर्विण्णः प्राव्राजीत् । कश्चित् तु वेत्तेरपीच्छति - निर्विण्णवानिति च ।। ८६ ।। न्या० स०-- निर्विण्णः । सत्तेत्यादि - एते त्रयोऽपि धातूनामनेकार्थत्वाद् वैराग्ये 5 वर्तन्ते । निर्विण्ण इति - "विदक् ज्ञाने" इत्यस्य सेट्त्वान्न । गतिकारक ० इति न्यायात् " रषृवर्ण ० " [२. ३. ६३ ] इति सिद्धमेव, किमनेन ? सत्यम् - अलचटेति व्यावृत्त्याऽप्राप्तौ क्तनकारस्य णत्वं निपात्यते, धातुनकारस्य तु " तवर्गस्य० ' [ १.३. ६०.] इति, "वर्णा ० " [ २. ३. ६३. ] इत्यनेन वा सिद्धमेव ।। २. ३. ८६ ॥ " . न ख्या- पूग-भू-भा-कम-गम-प्याय- वेपो णेश्च [ ३४७ " ।। २. ३. ६० ॥ अदुरुपसर्गा-ऽन्तः शब्दस्थाद् रषृवर्णात् परे ये ख्यादयोऽण्यन्ता ण्यन्ताश्च धातवस्तेभ्यः परस्य कृद्विषयस्य नकारस्य णो न भवति । प्रख्यानम्, प्रख्यायमानम्, प्रख्यायिनौ, प्रप्रख्यानिः प्रख्यानीयम् पूग् - प्रपवनम् प्रपूयमानम्, प्रपाविनौ, अप्रपवनिः, प्रपवनीयम्; भू-प्रभवनम् प्रभूयमानम्, प्रभाविनौ, 15 अप्रभवनिः, प्रभवनीयम्; भा-प्रभानम्, प्रभायमानम्, प्रभायिनौ, अप्रभानिः, प्रभानीयम्; कम् - प्रकमनम्, प्रकम्यमानम्, प्रकामिनौ, अप्रकमनिः, प्रकमनीयम् `गम्-प्रगमनम्, प्रगम्यमानम्, प्रगामिनौं, अप्रगमनि:, प्रगमनीयम्; प्याय्प्रप्यानः प्रप्यानवान्, प्रप्यायनम् प्रप्यायमानम्, प्रप्यायिनौ, अप्रप्यायनिः, प्रप्यायनीयम्;, वेप्-प्रवेपनम्, प्रवेपमानम्, प्रवेपिनौ, अप्रवेपनि, प्रवेपनीयम् 20 ण्यन्तेभ्योऽपि - प्रख्यापनम्, प्रपावनम्, प्रभावना, प्रभावनम्, प्रभापना, प्रकामना, प्रगमना, प्रप्यायना, प्रवेपनम् ; प्रण्यन्तेभ्यो नित्यं वेपो ण्यन्तेभ्यश्च विकल्पेन प्राप्ते प्रतिषेधः । पूगो गकार: किम् ? पवतेनिवृत्त्यर्थः तेन प्रपवरणम्, प्रपूयमारणम्, इत्यादि । ख्यातेर्णत्वमिति कश्चित् - प्रख्यारणम्, प्रख्याय मारणम् ।। ६० ।। 10 25 न्या० स०--न ख्या- पूग्० । ख्या इति निरनुबन्धोपादानं ख्यादेशस्य “ख्यांक्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy