SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० ४१-४२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२१ न्या स-स्था-सेनि । अथ सुस्थितो दुस्थित इत्यादौ कथं षत्वाभावः? उच्यतेउपसर्गप्रतिरूपका निपाता एते इत्युपसर्गत्वाभावात् षत्वाभावः । ण्यन्तानामपीति-रिणगः प्रागेवोपसर्गसंबन्धात् । अषोपदेशार्थमिति-अषोपदेशत्वं च सह इनेन वर्तते इति व्युत्पत्ती, सर्वेऽपि साधितस्यापि वा व्युत्पत्तिपक्षे। स्था-सञ्जोरिति-उपसर्गस्थस्य नामिनोऽवर्णान्तेन द्विवचनेनेत्यर्थः । नियमबाधनार्थमिति-सेनेस्तु "रिण-स्तोरेवा०" [२. ३. ३७.] 5 इति सिद्धं, तिष्ठतेस्तु सन् षत्वरूपो नास्तीति ।। २. ३. ४० ॥ अङप्रतिस्तब्ध-निस्तब्धे स्तम्भः ॥ २. ३. ४१ ॥ उपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य स्तम्भः सकारस्य द्वित्वेऽपि अट्यपि षो भवति, न चेदसौ स्तम्भित्रै प्रतिस्तब्धे निस्तब्धे च विषये भवति । विष्टभ्नाति, प्रतिष्टभ्नाति, वितष्टम्भः, प्रतितष्टम्भः, प्रतिताष्टभ्यते,10 अभितिष्टम्भिषति, व्यष्टभ्नात् प्रत्यष्टभ्नात् । अङ-प्रतिस्तब्ध-निस्तब्ध इति किम् ? व्यतस्तम्भत्, प्रत्यतस्तम्भत्, प्रतिस्तब्धः, निस्तब्धः ॥ ४१ ।। न्या० स०--अङ प्रति०। ष्टभुङ इत्यस्य लाक्षणिकत्वात् न ग्रहणमिति नैयासिकाः प्राहुः, पारायणकारैस्तु अस्यापि षत्वं कृतम्, एवमुत्तरसूत्रेऽपि ज्ञेयम् ॥ २.३.४१॥ 15 अवाच्चायो विदूरे ॥ २. ३. ४२ ॥ . अवादुपसर्गात् परस्य स्तम्भः सकारस्याश्रयादिष्वर्थेषु गम्यमानेषु द्वित्वेऽपि अटयपि षो भवति, अडे-विषयश्चत् स्तम्भिन भवति । आश्रयःआलम्बनम्-दुर्गमवष्टभ्नाति, दुर्गमवष्टभ्यास्ते, अवतष्टम्भ दुर्गम्, दुर्गमवाष्टभ्नात् ; ऊर्ज-ऊर्जित्वम्-अहो वृषलस्यावष्टम्भः, अवष्टब्धो रिपुः शूरेण ; 20 अविदूरमनतिविप्रकृष्टम्-आसन्नमदूरासन्नं च गृह्यते-अवष्टब्धा शरात्, अवष्टब्धा सेना। अवादिति किम् ? प्रस्तब्धः । चकारोऽङ इत्यस्यानुवृत्त्यर्थोऽनुक्तसमुच्चयार्थश्च, तेन-'उपष्टम्भः, उपष्टम्भकः, उपष्टब्धः' इत्यादावुपादपि भवति । उपावादित्यकृत्वा चकारेण सूचनमनित्यार्थं, तेनोपस्तब्ध इत्यपि भवति । प्राश्रयादिष्विति किम् ? अवस्तब्धो वृषलः शीतेन । अङ इत्येव-25 अवातस्तम्भत् ।। ४२ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy