SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३१८ ] बृहद्वृत्तिलधुन्याससंवलिते [पा० ३. सू० ३७-३८.] स्यादिविधौ प्रथमं कृतमपि षत्वं निवर्तत इति प्राग् नागमः, तस्मिन् च नामिनो व्यवधानेऽपि शिड्नान्तरेऽपि इति षत्वम् ।। २. ३. ३६ ।। णि-स्तोरेवास्वद-स्विद-सहाणि ॥ २. ३. ३७ ॥ स्वद-स्विद-सहवजितानां ण्यन्तानां स्तौतेरेव च संबन्धिनः सकारस्य नाम्यन्तस्थाकवर्गात् परस्य षणि-षत्वभूते सनि परे षो भवति, नान्येषाम् । 5 सिषेवयिषति, सुष्वापयिषति, सिषेधयिषति; तुष्टूपति । स्वदादिपर्युदासः किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति। स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि षोपदेशानामेव ग्रहणम्, तथा च कृतत्वात् सकारस्य "नाम्यन्तस्थाकवर्गा०" [२. ३. १५.] आदिसूत्रेणैव सिद्धे नियमार्थं वचनम्-णिस्तोरेव परिण षत्वं नान्यस्य, तेनेह न भवति-10 सुसूषति, सिसिक्षति, सिसेविषति । एवकारः षण्येव णिस्तोरिति विपरोतनियमनिवृत्त्यर्थः, तेनेहापि भवति-असीषिवत्, तुष्टाव । षणीति किम् ? सिषेव, सुष्वाप । षत्वं किम् ? सुषुप्सति, तिष्ठासति । नकारः किम् ? व्यतिसुषुपिषे। कथं प्रतीषिषति ?, अधीषिषति ? षणि निमित्त धातोः षत्वनियम उक्तः, इह तु सन एव द्विरुक्तस्य षत्वं न धातोरिति न प्रतिषेधः ।15 'सोषुपिषते, सेषिविषते' इत्यादौ तु यङि द्वित्वं पश्चात् सन्निति न प्रतिषेधः । येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिः, तन्मते-सुसोषुपिषत इत्यत्र परिण सुशब्दात् परस्य सस्य षत्वं न भवत्येव ॥ ३७ ।। न्या० स०--णिस्तो। प्रतोषिषंतीति-अत्र “इण्क् गतौ” इति लिख्यते, तस्य च ज्ञानार्थत्वात् “सनीङश्च" [ ४. ४. २५. ] इति न गम्वादेशः । “इंक स्मरणे"20 "इंङक अध्ययने" इत्यनयोस्तु अज्ञान इति विशेषणं नासम्भवात्, अतोऽनयोर्गम्वादेश: प्राप्नोतीत्येतौ न लिख्येते, "इणं क गतौ" इत्यस्याप्यज्ञानार्थत्वविवक्षायामादेशप्राप्तिः । "इंदुः" इत्यस्य तु ज्ञानार्थत्वविवक्षायामविवक्षायामपि नादेशः, “इणिकोई:" [४. ४. २३.] इत्यत इणिकोश्चानुकृष्टत्वात् “सनीङश्च" [ ४. ४. २५. ] इति चकारेण । सोसुपिषत इति-अत्र यङोऽकारस्य स्थानित्वेन न गुणः, तथा "नाम्यन्तस्था०" [२.३.१५.]25 इत्यस्यैवायं नियमः, एतद्विषय एवारम्भात् ।। २. ३. ३७ ।। सजेर्वा ॥ २. ३. ३८ ॥ इकारान्तनिर्देशात् सञ्ज इह ण्यन्तो गृह्यते, सञ्जयते म्यन्तस्थाकवर्गात्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy