________________
[पा० ३. सू० १२-१३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३०७
नेकार्थे क्रिये ॥ २. ३. १२ ॥
न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्न कार्थे-समानाधिकरणे पदे यत् कखप] तस्मिन् परे इसुस्प्रत्ययान्तस्य संबन्धिनो रेफस्य षो न भवति, "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यस्यायं प्रतिषेधो नान्यस्य, तद्विषय एवारम्भात् सपि) (कालकम् । यजु पीतकम् । एकार्थे इति किम् ? 5 सर्पिष्कुम्भे, सर्पि) (कुम्भे; धनुष्पुरुषस्य, धनु-पुरुषस्य । अक्रिय इति किम् ? सपिष्क्रियते, सपिः क्रियते, धनुष्प्राप्तम्, धनुः प्राप्तम् ।। १२ ।।
___ न्या० स०-नैकार्थेऽकिये एकार्थे इत्यत्र एकशब्दः समानार्थः, यथा चैत्रमैत्रयोरेकमातेति, एका-समानेत्यर्थः, अर्थशब्दस्तु इदं-तदित्यादि सर्वनाम्ना व्यपदिश्यमानेऽनेकस्य युगपत् प्रयुज्यमानस्य भिन्नप्रवृत्तिनिमित्तकस्य शब्दस्याधिकरणे द्रव्ये वर्तते । सपिकालक-10 मित्यादि-कालकं पीतकमिति गुणवचनमक्रियावाचि समानाधिकरणमतः प्रतिषेधः । पोतकमिति-पीतशब्द: पावदित्वात् स्वार्थे कः, यद्वा पीतेन रक्तमिति "नीलपीतादकम्" [६. २. ४. ] इति कः ।। २. ३. १२ ॥
समासेऽसमस्तस्य ॥ २. ३. १३ ॥
पूर्वेणासमस्तस्य इसुस्प्रत्ययान्तस्य संबन्धिनो रेफस्य क-ख-प-फे परे षो15 भवति, समासे-तौ चेनिमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः, असर्पिः सपिः कृत्वा सर्पिष्कृत्य, सर्पिष्खण्डम्, सर्पिष्पानम्, सर्पिष्फलम् ; धनुष्कृत्य, धनुष्खण्डम्, धनुष्पृष्ठम्, धनुष्फलम् । समास इति किम् ? तिष्ठतु सपिः, पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसपिःकुण्डम्, इन्द्रधनुःखण्डम् ; पूर्वेणापि न भवति समासे सत्यपेक्षाया अभावात् । इदमेवासमस्त-20 स्येति वचनं ज्ञापकम्-इसुसोः “प्रत्ययः प्रकृत्यादेः” [७. ४. ११५.] इत्ययं नियमो न भवति, तेन परमसर्पिष्करोति, परमसर्पिः करोतीत्यत्र "वेसुसोऽपेक्षायाम्" [२. ३. ११.] इत्यनेनाधिकस्यापि विकल्पो भवति । बहुसपिएकुण्डम्, बहुपिष्पात्रमित्यत्र तु बहुप्रत्ययादेरपि असमस्तत्वादनेन नित्यं भवति ।। १३ ॥
न्या० स०-समासे । सपिष्पानमिति-"पानस्य भावकरणे" [२. ३. ६६.] इति गत्वे प्राप्ते “षात् पदे" [ २. ३. १२. ] इति निषेधः । इदमेवेति-ननु परमसर्पिष्करोति
25