SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २६८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० १२३-१२४.] एकाऽनेकस्वभावस्याऽऽत्मनोऽनेकस्वभावविवक्षायां बहुवचनं सिद्धमेव, सविशेषणप्रतिषेधार्थं तु वचनम् ।। १२२ ।। न्या० स०--अविशे०। न विशेषणमविशेषणम्, यद्वा विशेषगस्याभावः । अस्मदः इत्यत्र अनुकरणत्वादस्मच्छब्दकार्याप्रवत्तिः । अविशेषणे इत्यत्र प्रतिषधप्रधानः प्रसज्यो नत्र, यद्यत्र प! दासः स्याद्-विशेषणादन्यस्मिन्निति तदा विशेषणेन विधिर्नापि 5 प्रतिषेधो विशेषणे ततोऽन्यस्मिस्तु प्रयुज्यमाने विधिः, कोऽर्थः ? सत्यप्यस्मदर्थस्य विशेषणे ततोऽन्यस्मिन् प्रयुज्यमाने स्यादित्यर्थः, ततश्चाहं मैत्रो ब्रवीमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावाद् मैत्र इति विशेषणे सत्यपि स्यादित्याह-न चेत् तस्येति । अावां ब्रव इति-पत्र द्वयोर्मध्ये एको ब्रते ततश्च कथमावां ब्रव इति, उच्यते-द्वयोरप्यभेदोपचारात। विधेयत्वेनेति-अज्ञातज्ञापनोयत्वेनेत्यर्थः । एकानेकस्वभावस्येति-अयमर्थ:-एकोऽप्यात्मा 10 यथैकत्वेनानुभूयते तथा द्रष्टा श्रोता मन्तेत्यादिनानात्वेनापि, नह्य कान्तेनैकत्वेनानेकत्वेन वेतरविनिर्मक्तन प्रतिपत्तिरस्ति, तत्र यथैकत्वेन द्वित्वेन च तस्मिन विवक्षिते एकवचनं द्विवचनं च तथा बहुत्वविवक्षायां बहुवचनं सिद्धम् । नटानां नृत्तं "नटान्नृत्तं ज्यः" [ ६. ३. १६५. ] नाट्यम् ॥ २. २. १२२. ।। फल्गुनी-प्रोष्ठपदस्य भे॥ २. २. १२३ ॥ 15 फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे-नक्षत्र वर्तमानस्य द्वावथौं । बहुवद् वा भवतः। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः; कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः; उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः; उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः । भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ माणविके। द्वावित्येव-तेनैकस्मिन् ज्योतिषि न20 भवति-दृश्यते फल्गुनी। एकवचनान्तः प्रयोग एव नास्तीत्यन्ये । फल्गुनीप्रोष्ठपदस्येति शब्दपरो निर्देशःकिम् ? तत्पर्यायस्य मा भूत्-अद्य पूर्वे भद्रपदे ।। १२३ ।। न्या० स०--फल्गु०। प्रोष्ठपदे इति-प्रवृद्धः प्रोष्ठो यस्य प्रोष्ठो गौस्तस्येव पादौ यस्या ययोर्वा "सुप्रात०" [ ७. ३. १२६. ] इति निपात्यते ।। २. २. १२३. ॥ 25 गुरावेकश्च ।। २. २. १२४ ॥ गुरौ-गौरवाहेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्चाऽर्थो बहुवद् वा भवति ।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy