SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ११४-११६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६३ शब्दावन्याथौं तदा प्रभृत्यादिसूत्रेण पञ्चमी सिद्धैव तृतीयवाऽनेन विधीयते, यदा त्वसहायाौँ तदा पञ्चमीविधानार्थमपोदम् । अन्ये तु द्वितीयामपीच्छन्ति ।। ११३ ॥ ऋते दिवतीया च ॥ २. २. ११४ ॥ ऋते इत्येतदव्ययं वर्जनार्थम्, तेन युक्ताद् गौणान्नाम्नो द्वितीया पञ्चमी 5 च भवति । चित्रं यथाश्रयमृते, नह्यङ्ग विक्रियते रागमते, ऋते धर्मात् कुतः सुखम् । द्वितीयां नेच्छन्त्येके ।। ११४ ।। न्या० स०-ऋते द्वि० । नाङ्ग विक्रियत इति-विषयादिभिः कर्तृभिरित्यर्थः, विक्रियत इति कर्मण्ययं प्रयोगः, कर्मकर्तरि तु “भूषार्थ." [३. ४. ६३.] इति किरादित्वात् क्यप्रतिषेधः स्यात् ।। २. २. ११४ ।। 10 विना ते तुतीया च ॥ २. २. ११५ ॥ विनाशब्देन युक्ताद् गौरणान्नाम्नस्ते-द्वितीयापञ्चम्यौ तृतीया च भवति । विना बातम्, विना वर्षम्, न विना शब्दभावनाम्, याञ्चां विना विद्धि, विना वातात्, विना वातेन । द्वितीयां नेच्छन्त्यन्ये ।। ११५ ॥ न्या० स०-विना ते० । विनेति तृतीयान्तमव्ययम् । "प्राद्यः करणविन्यासः, प्राणस्योचं समोरणम् । स्थानानामाभिघातश्च, न विना शब्दभावनाम्" ।। २. २. ११५ ।। 15 तुल्यार्थ स्तुतीया-षष्ठयौ ॥ २. २. ११६ ॥ तुल्यार्थैर्युक्ताद् गौणानाम्नस्तृतीया-षष्ठ्यौ भवतः । मात्रा तुल्यः, मातुस्तुल्यः; पित्रा समानः, पितुः समानः; गुरुणा समः, गुरोः समः; चैत्रेण20 सदृशः, चैत्रस्य सदृशः । अर्थग्रहणं पर्यायार्थम् । उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्येत्यादावुपमादयो न तुल्यार्था इति न भवति । गौरणाधिकाराच्च गौरिव गवयः, यथा गौस्तथा गवय इत्यादौ न भवति। तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्, तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy