________________
[ पा० २. सू० १०८. ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
इति किम् ? गतशब्दप्रयोगे मा भूत् - गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु भवति, त्रैकार्थ्यं न भवति; सप्तमी तु पूर्वेण नित्यं भवति । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे, अत्राप्यैकार्थ्याभावे पूर्वेण नित्यं सप्तमी । अन्तेनेति किम् ? अद्य नश्चतुर्षु गव्यूतेषु भोजनम्, भोजनं हि भोक्तृधर्मो नाऽध्वनोऽन्त इति पूर्ववत् सप्तम्येव । नन्वन्तेन सहाऽध्वनोऽभे- 5 दोपचारात् सिद्धमेवैकार्थ्यं किमनेन ? - कालेऽप्येवं मा भूदिति
सत्यम्-क
वचनम् ।। १०७ ।।
[ २८६
न्या० स० गते गम्ये० । कुतश्चिदवधेः गवीधुमत इत्यादिलक्षरणात्, विवक्षितस्य इयत्तापरिच्छेदायोपात्तस्याध्वनोऽवसानं - सांकाश्याद्यन्तः । यद्भाव इति-यस्याध्वानश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः सांकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थ: 110 ऐकार्थ्यमिति - एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्थ्यम् । तद्विभक्तिरिति - अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामी:- श्रीः तां दधाति "पृ. काहृषि० " [ उणा० ७२६. ] इति किदुः, सोऽत्राऽस्ति मतु:, अव्युत्पन्नो वागवीधुच्छन्दः । श्रद्य नश्चतुर्षु गव्यूतेष्विति गव्यूतिरत्रास्ति विषयतयाऽवयवितया वा “अभ्रादिभ्यः” [७. २. ४६.] अ:, गव्यूतं क्रोश एकः । नन्वन्तेनेति - चतुर्षु योजनेषु 15 यत् सांकाश्यं तच्चत्वारि योजनानि ।। २. २. १०७ ।।
षष्ठी वाश्नादरे ॥। २. २.१०८ ॥
यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौरणान्नाम्नोऽनादरे गम्यमाने षष्ठी वा भवति, पक्षे पूर्वेण सप्तमी । रुदतो लोकस्य प्राव्राजीत्, रुदति लोके प्राव्राजीत्; क्रोशतो बन्धुवर्गस्य प्राव्राजीत्, क्रोशति बन्धुवर्गे 20 प्राव्राजीत्; रुदन्तं क्रोशन्तं वाऽनादृत्य प्राव्राजीदित्यर्थः ।। १०८ ।।
न्या० स०-- षष्ठी वा० । पक्षे पूर्वेण सप्तमीति - वाशब्दमन्तरेणानादरे पष्ठयाऽपवादतया सप्तमी बाध्येत । ननु " यद्भाव : ० " [२. २. १०६. ] इति भावलक्षणे सामान्ये सप्तमी, तत्रानादर इति विशेषे षष्ठी, सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न बाध्यबाधकभावोऽस्तीति किं पक्षे सप्तम्यर्थेन वाशब्देनेति, उच्यते - यथाऽनादरादन्यत्र 25 साम्यतः सप्तम्यस्ति, एवं "शेषे” [२. २. ८१.] इत्यनेन षष्ठ्यपि, तत्रोभयत्रापि प्रव्रजन् रुदतापि लोकेन निवर्त्त्यमानस्तद्रोदनमनादृत्य प्राव्राजीदित्यनादरः प्रकररणादेः प्रतीयत इति सामान्येऽर्थे षष्ठी सप्तमीं बाधेतेति पक्षे तदर्थं वावचनम् ॥। २. २. १०८ ।।