________________
[पा० २. सू० ६९-७१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६७
विभक्त्या उपपदविभक्तिस्तदपेक्षणाद् बहिरङ्गा चतुर्थी बाध्यते उपपदविभक्त : कारकविभक्तिर्बलोयसीइति न्यायात्, ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति कथमन्तरङ्गा? नैष दोषः-कारकस्य क्रियामात्रसंबन्धाव्यभिचारात् स्वरूपान्तर्गतैव सापेक्षा। यद्यवमिति-कारकविभक्त्या द्वितीयया बाध्यमाना कथमत्र चतुर्थीति प्रश्नार्थः ।
"स्वयंभुवे नमस्कृत्य, ब्रह्मणेऽमिततेजसे ।
मुनिप्रणीतान् विविधान्, मन्त्रान् व्याख्यामि शाश्वतान् ।। १ ।।" ।। २. २. ६८ ।।
पञ्चम्यपादाने । २. २. ६६ ॥
अपादाने कारके गौणानाम्नो यथासंख्यमेक-द्वि-बहौ 'सि-भ्यां-भ्यस्' लक्षणा पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति, पर्वतादवरोहति,10 गोदाभ्यामागच्छति, यवेभ्यो गां वारयति, कुसूलात् पचति, बलाहकाद् विद्योतते विद्युत्, चौराद् बिभेति ।। ६६ ।।
आङावधी ॥२. २. ७० ॥
अवधिर्मर्यादा, अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् ; अवधौ वर्तमानात् अाङा युक्ताद् गौणानाम्नः पञ्चमी भवति । आ पाटलिपुत्राद्15 वृष्टो मेघः, पाटलिपुत्रमवधीकृत्य तद्वयाप्याऽव्याप्य वा वृष्ट इत्यर्थः; श्रा कुमारेभ्यो यशो गतं गौतमस्य ।। ७० ।।
न्या० स०--आङाव०। प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा क्रियया व्याप्यते तदाऽभिविधिः । पाटलिपुत्रमवधीकृत्येति-एतावानर्थ प्राङा द्योत्यते ।। २.२.७० ।।
20
पर्यपाभ्यां वज्य ॥ २. २. ७१ ॥
वये-वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्ताद् गौणान्नाम्नः पञ्चमी भवति । परि पाटलिपुत्राद् वृष्टो मेघः, परि परि पाटलिपुत्राद् वृष्टो देवः; अप पाटलिपुत्राद् वृष्टो देवः, पाटलिपुत्र वर्जयित्वेत्यर्थः । वयं इति किम् ? अपशब्दो मैत्रस्य ।। ७१ ।।
25