SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ६७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६५ भवति । हित-सुखशब्दाभ्यां पूर्वेण विकल्पः सिद्ध एव, तदर्थार्थं तु तद्ग्रहणम् ।। ६६ ।। न्या० स०-- तद्भद्रा०। भद्र-क्षेमार्थयोरन्यत्रैकार्थत्वेऽपि क्षेमम्-आपदोऽभावः, भद्रं-संपदुत्कर्ष इत्यर्थभेदाद द्वितीयोपादानम् । आयुष्यमस्तु चैत्रायेति-आयुः प्रयोजनमस्य घृतादेरायुष्यं-घृतादि; ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्राप्नोति, यत आयुः 5 शब्देन जीवितमेवाभिधीयते, न तु जीवितकारणं घृतादिकम्, उच्यते-कार्ये कारणोपचारात्, यथा-इन्द्रः स्थूणा, यदा त्वायुरेव भेषजादि[त्वात्] स्वार्थे टयणि आयुष्यशब्दो निष्पाद्यते तदा निर्विवादं सिद्धमेव । आमयस्याभावः-निरामयम् “विभक्तिसमीप०" [ ३. १. ३६.] इति समासः। प्रायुष्यं प्राणिनामिति-अत्र आयुषि साधु “तत्र साधौ" [७. १. १५. ] यः । तद्ग्रहरणमिति-तर्हि प्रागप्यर्थग्रहणमस्तु, सत्यम्-तदर्था-10 नामाशिषि नियमार्थमिदम् ।। २. २. ६६ ।। परिक्रयणे ॥ २. २. ६७ ॥ परिक्रीयते-नियतकालं स्वीक्रियते येन तत् परिक्रयणं वेतनादि, तस्मिन् वर्तमानाद् गौरणान्नाम्नश्चतुर्थी वा भवति । शताय परिक्रीतः, शतेन परिक्रीतः; "संभोगाय परिक्रीतः कर्ताऽस्मि तव नाप्रियम् ।” संभोगेन वा; शतादिना15 नियतकालं स्वीकृत इत्यर्थः । परीति किम् ? शतेन क्रीणाति, क्रयस्यात्र करणं न परिक्रयस्य । करणाश्रयणं किम् ? शताय परिक्रीतो मासम्, मासात् मा भूत् ॥ ६७ ।। न्या० स०--परिक्र० । स्वीकारो ह्यात्मसात्करणं परिक्रय उच्यते, परिशब्दोऽत्र प्रत्यासत्ति द्योतयति. यथा-परिसहस्रा गाव इति सहस्रप्रत्यासन्नाः संभाव्य परिसहस्रा गाव20 उच्यन्ते, एवमत्रापि क्रयप्रत्यासन्नोऽल्पकालो वेतनादिना स्वीकारः परिक्रय उच्यते, तत्र यत् करणं परिक्रयक्रियायां साधकतमं वेतनादि तत् करणव्युत्पत्त्या परिक्रयणमुच्यते । वेतनादीति-श्रादिपदाद् भाटकादिपरिग्रहः। करणाश्रयणं किमिति-करणाश्रयणं विना परिक्रीयतेऽस्मिन्नित्यनया व्युत्पत्त्या मासादपि स्याच्चतुर्थी । शताय परिक्रोतो मासमितिक्रीत इति रूपं कर्मणि कर्तरि वा, तथाहि-परिक्रीयते स्म परिक्रीतः, क: कर्मतापन्नः ? 25 चैत्र:, कं ? मासम्, कोऽर्थः ? मासे; यद्वा परिक्रीणीते स्म कर्तरि क्तः कर्मणोऽविवक्षितत्वात्; अथात्र मासमिति कर्म विद्यते तत् कथं कर्तरि क्तः, उच्यते-मासमित्यत्र "कालाध्वभाव०" [ २. २. ४२. ] इत्यनेनाधारस्य युगपत् कर्मसंज्ञाऽकर्मसंज्ञा च, तत्र कर्मसंज्ञायां कर्मणि द्वितीया, अकर्मसंज्ञायां तु कर्तरि क्तः ।। २. २. ६७ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy